पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५८२ काव्यमाला। तदेकाक्षौहिणीशेषबलसंभारभासुराः । तिष्ठन्ति स्म सुताः पाण्डोश्चिरमावृत्य तत्सरः ॥ ८७६ ॥ तन्नीरस्य एतस्तीरमधिष्ठाय युधिष्ठिरः । स्पष्टमामृष्टमर्माणं वाणीमिति समाददे ।। ८७७ ॥ दुर्योधन मुधा वीरं त्वां स्म मन्यावहे वयम् । मृगेन्द्रमतिरस्माकं फेरवे स्फुटमस्फुरत् ॥ ८७८ ॥ निष्कलङ्के ××ङ्कोऽभूस्त्वमेवामत्कुलेऽखिले । । त्वयैव क××तात धृतराष्ट्रमहः कृतम् ॥ ८७९ ॥ घातयित्वा समित्येवं सुहृत्संबन्धिबान्धवान् । यदिदानी निजप्राणत्राणायाम्भसि मज्जसि ॥ ८८०॥ मग्नस्यापि जले किंतु जीवितव्यं न ते क्वचित् । मुहूर्तोऽपि गमी नैतत्सरः शोषयतां हि नः ॥ ८८१ ॥ क्वाद्य ते स भुजादर्पस्तृणीकृतजगत्रयः । येनावमत्य नः सर्वास्त्वं महीं भोक्तुमैहथाः ।। ८८२ ।। यद्येतावदनात्मज्ञ त्वमासीम्रत्युकातरः । तत्संधिसून्पुरा किं न गोत्रवृद्धानमानयः ।। ८८३ ।। संधिमादधतं किं च पञ्चग्राम्यापि शार्ङ्गिणम् । निराकृत्य तदा किं त्वमात्मनीनमसूत्रयः ॥ ८८४ ॥ तत्तेऽद्य स्फुटमायात एव मृत्युर्यथा तथा । जीवितं ह्यतिदुर्लम्भमाप्तवाक्यविलचिनाम् ॥ ८८५ ॥ अत्यन्तानुचितां क्षत्रव्रतस्य च कुलस्य च । कृष्णाकेशाम्बराकृष्टिं तदा कारयतस्तव ॥ ८८६ ॥ बहीयो यदभूदंहस्तस्यास्माभिर्बलादपि । अद्य प्राणप्रहारेण प्रायश्चित्तं विधास्यते ॥ ८८७ ॥ (युग्मम् तन्निर्गत्याम्भसो भूत्वा शौण्डीरश्चेद्विपद्यसे । तदात्मभुजयोलज्जा कुलस्य च विलुम्पसि ॥ ८८८ ॥