पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ५८१ समं दोस्तम्भसंरम्भैः साकं कपटपाटवैः । क्षयमीयुः क्षणाद्वाणा गान्धाराणामधीशितुः ।। ८६३ ॥ दीव्यन्तं समरद्यूते ततः प्राणैः पणीकृतैः । माद्रेयोऽक्षैरिव क्षिप्रं क्षुरप्रैर्जयति समत्तम् ॥ ८६४ ॥ क्षुण्णेऽथ शकुनौ साक्षाच्चेतसीव कुरुप्रभुः । उच्छ्रसन्नपि भस्त्रेव चैतन्यविकलोऽभवत् ॥ ८६५ ।। वीक्ष्यानीकमयात्मीयमेयिवद्विशरारुत्थर। गान्धारेयो गतस्थामा जगामाकुलताम् ॥ ८६६ ॥ अथ सैन्यरथोद्भूतैः सोऽन्धकारपोपमः। तिरोहितवपुः पांशुपूरैः स्वैरमुगासरत् ॥ ८६७ ।। न नाम शुशुभे शेषद्वित्रशौण्डीरमौक्तिकम् । तदा मौक्तिकदामेव तदनीकमनायकम् ।। ८६८।। कृपश्च कृतवर्मा च द्रोणभूश्च त्रयोऽप्यमी । धार्तराष्ट्रमपश्यन्तः कोका इव दिवाकरम् ॥ ८६९ ॥ बिभ्रतः कान्दिशीकत्वं विच्छायवदनश्रियः। कामं गवेषयामासुर्विषण्णास्तमितस्ततः ॥ ८७० ॥ (युग्मम्) भ्राम्यन्तो ददृशुस्तेऽथ गान्धारेयपदावलीम् । सरो व्याससरो नाम ययुस्तदनुसारतः ॥ ८७१ ॥ अम्भः संस्तभ्य संविष्टं तत्र निश्चित्य कौरवम् । भर्तृभक्त्या क्षणं तस्थुस्तस्य ते सरसस्तटे ॥ ८७२ ॥ अथावलोक्य धूलीमिस्तैः कदम्बितमम्बरम् । कौरवानुपदी पार्थबलराशिरशङ्क्यत ॥ ८७३ ॥ दृष्ट्वा नात्र स्थितं पार्था ज्ञासिषुर्मा स्म कौरवम् । इत्यालोच्य तिरोभूवन्कापि ते तरुगहरे ॥ ८७४ ॥ तस्मिन्सरसि विज्ञाय बनेचरगिरा ततः । प्रविष्टं कौरवाधीशमन्वगुः पाण्डुसूनवः ।। ८७५ ॥