पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५८० काव्यमाला। क्वचित्करैः क्वचित्पादैः क्वचिदङ्गैः क्वचिन्मुखैः । आकीर्णाङ्का विधेः कर्मशालेव रणभूरभूत् ।। ८५० ॥ शङ्के तस्यां विशन् रौद्यां सोऽप्यभैषीत्तदान्तकः । श्वसन्ति स्म चिरं केचिद्यदरातिहता अपि ॥ ८५१ ।। शस्त्राधातोच्छलन्मूर्च्छानभिषिच्याभितोऽम्बुभिः । भूयोऽपि प्रगुणीकुर्वन्कांश्चित्समरकेलये ॥ ८५२ ।। पाययंश्च. पयः कांश्चिच्छुष्कतान्पिपासया । इक्षुद्रा भस्त्यक्ततापान्कांश्चिच्च सूत्रयन् ॥ ८५३ ॥ . निर्भर्त्स्यभिमुखीकुर्वन्कांश्चिद्भीत्या पराङ्मुखान् । तत्र बभ्राम निभाः सर्वतः सुभटीजनः ।। ८५४ ॥ (त्रिमिविशेषकम् अथाशेषैर्नृपैः सार्धं सबलैः सौबलादिभिः । उत्तस्थे मांसलस्थामा कौरवाणामधीश्वरः ।। ८५५ ।। पाण्डवीयाः क्षणं प्रौढकटका अपि भूभृतः । संहारमस्तिस्येव तस्य वेगं न सेहिरे ॥ ८५६ ॥ आसन्नान्तस्तदा सोऽभूत्पाण्डवैरपि दुःसहः । तापो ह्यपरनैदाधः सोढुं कैर्नाम शक्यते ॥ ८५७ ।। तन्वन्नकालकल्पान्तभ्रान्तिं त्रिजगदङ्गिनाम् । संगरोऽभून्महाघोरः सैन्ययोरुभयोस्ततः ॥ ८५८ ॥ शकुनिः कुरुभूभर्तुः कूटनाटकसूत्रभृत् । सहदवमथारौत्सीन्महेभः कलभं यथा ॥ ८५९ ।। द्युतीशद्युतिसंक्रान्त्या तापितानि च वह्निना । माद्रेयमभितो रौद्रान्स ववर्ष शिलीमुखान् ॥ ८६० ॥ एघोभिरिव तैरतैः सायकैः खैरपातिभिः । दिदीपे सहदेवस्य नितरामूर्जितानलः ॥ ८६१ ॥ माद्रेयस्तस्य नाराचैः काण्डश्रेणीरखण्डयत् । अम्भोधर इवाम्भोधिज्वाला दवहविर्भुजः ।। ८६२ ॥ .