पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

. पाण्डवचरितम् । ५७९ वघोत्सुकोऽपि बीभत्सुस्त्वत्संगरमनुस्मरन् । क्षुन्दानेऽपि चमू शल्ये बाणश्रेणीं न मुञ्चति ॥ ८३७ ॥ झगित्युत्सृजत स्थैर्यमौर्जित्यमुररीकुरु । " लम्भय प्रसमं शल्यमेनं कीनाशदाम्साम् ॥ ८३८ ॥ इत्यच्युतवचष्टङ्कोल्लिखितात्मा तपःसुतः। प्रतिज्ञां मद्रभूभर्तुरामध्याह्राद्वधे व्यधात् ।। ८३९ ।। उत्कल्लोलं ततः शल्यं धर्मभूर्भुजवैभक्षा। नर्मदायाः परीवाहं कार्तवीर्य इवारुधतम् ।।८४०॥ उच्छलहाणनिर्माणगीर्वाणनयनस्तनः। अभूत्कृतजगड्डिम्बडम्बरः समरेस्तयोः ॥ ८४१॥ . विश्वसंहारिमिः कालीकटाक्षैरिव तत्क्षणात् । व्यानशे निशितैर्व्योम तत्कालं च कदम्बकैः ॥ ८४२ ॥ स्तृणोति स्म क्षणं बाणैर्लाघवोल्लाघमुक्तिभिः । सरथ्यं सरथं धर्मनन्दनं मद्रभूपतिः ॥ १३ ॥ मुमूर्च्छाथ क्रमाच्छिन्दशल्यवाणमयं तमः । प्रगेतन इवोद्दयोतो युधिष्ठिरशरोत्करः ॥ ८४४ ॥ शल्यत्राणकृते दूराद्धावन्तोऽन्यधराधवाः । भाग्यैरिव विपत्पूगाः फाल्गुनाद्यैर्ममन्थिरे ॥ ८४५ ॥ मध्यंदिनदिनाधीशः पश्यस्तत्समरोत्सवम् । लक्ष्यते स तथा व्योनि मन्दमन्दमिवोच्चलन् ॥ ८४६ ॥ युध्यमानं ततो यत्नाद्दतं बाणैरजेयताम् । निहन्ति स तपःसूनुः शक्तया शल्यममोघया ॥ ८४७ ॥ व्यालदन्तावलेनेव क्रोधादन्धंभविष्णुना । मरुद्भुवाप्यभिद्यन्त भूयांसो युधि कौरवाः ।। ८४८ ॥ उद्यत्पार्थप्रतापाख्यबालार्केणेव शोणिताः । प्रावर्तन्ताभितः कुम्भिद्वयस्य रुधिरापगाः ।। ८४९ ।।