पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् । ६३

तं तमुत्सवमुद्दिश्य तनयालोकनोत्सुका ।
आगमद्गोकुले देवी वात्सल्येनान्तरान्तरा ॥ २१० ॥
सापीप्यत्सूनवे स्तन्यं स्नेहतः प्रस्नुतस्तनी ।
मुहुरुल्लापयांचक्रे विविधोल्लापपण्डिता ॥ २११ ॥
ध्रुवं भाग्यैरहं त्यक्ता त्यक्तानेन सुतेन यत् ।
इति स्वमन्तर्निन्दन्ती नन्दपत्नीमुवाच सा ॥ २१२ ॥
त्वं यशोदे त्रिभुवनस्त्रीणामुपरि वर्तसे ।
तनयेनामुना नित्यमङ्कस्ते यदलंकृतः ।। २१३ ॥
कुलं वा गोकुलं वापि रम्यं यत्रैष खेलति ।
प्रशंस्यैवं यशोदा सा मन्थरं मथुरां ययौ ।। २१४ ।।
वैरं पूर्वमथ स्मृत्वा पूतना शकुनिस्तथा ।
विद्याधर्यावुपागत्य विष्णोर्निधनमीषतुः ॥ २१५ ॥
ते च देवतया मृत्युं लम्भिते कृष्णगृह्यया ।
स एव निधनं गच्छेदिच्छेदत्यहितं सताम् ॥ २१६ ॥
रिङ्खन्नस्खलितं कृष्णः कण्ठीरवकिशोरवत् ।
गोकुले दधिदुग्धानां हठाद्भाण्डान्यलूलुठत् ।। २१७ ॥
सोऽभूत्तथापि गोपालप्रेयसीनामतिप्रियः ।
पश्य कस्यापि न द्वेष्यस्तपनोऽतितपन्नपि ।। २१८ ॥
सप्ताष्टहायनः सोऽथ यशोभिर्व्यानशे दिशः।
चम्पकप्रसवो नव्यः स्फुटन्परिमलैरिव ॥ २१९ ॥
गुणैर्लोकोत्तरैस्तैस्तैरिदानीं नन्दनन्दनः।
विजयी गोकुलेऽस्तीति पप्रथे मथुरान्तरे ॥ २२० ॥
कीर्तिकोलाहलं श्रुत्वा तं सूनोः कंसशङ्कितः ।
हिताय प्राहिणोच्छौरिर्बलदेवं तदन्तिके ।। २२१॥
कृष्णः प्रीत्या तमद्राक्षीदविदन्नपि बान्धवम् ।
जन्मान्तरकृतः स्नेहः प्रह्वयत्येव मानसम् ॥ २२२ ॥