पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

शिशोस्तस्यानुभावेन सुखोत्तारमिति द्रुतम् ।
उत्तीर्य यमुना शौरिरगमन्नन्दगोकुलम् ॥ १९७ ॥
तदैव दैवयोगेन यशोदा नन्दगेहिनी ।
तनयां जनयांचक्रे मनोरमतमाकृतिम् ॥ १९८॥
तामादाय यशोदायाः समर्प्य च तनूरुहम् ।
कृतकृत्यमनाः शौरिः स्वस्थानं पुनराययौ ॥ १९९ ॥
तां नन्दपुत्री देवक्याः स च वेगादुपानयत् ।
दूरीकृतप्रमादास्ते पत्तयश्च जजागरुः ॥ २०० ॥
बालिका तामुपानिन्युस्ते कंसाय निरादराः ।
सावज्ञं वीक्ष्य सोऽप्येनामकरोल्लूननासिकाम् ।। २०१॥
प्रीत्या भीत्या च योऽश्रान्तं स्मयते मित्रशत्रुभिः ।
बध्यः सोऽप्यनया कंस: कट(टु) सत्यं मुनेर्वचः ॥ २०२ ॥
इत्थं हसित्वा सोल्लुण्ठमतिमुक्तमहामुनिम् ।
स मृत्युंजयमात्मानं मन्वानो राज्यमादधे ॥२०३॥ (युग्मकम्)
कन्यामवज्ञया कंसो देवक्याः पुनरर्पयत् ।
उड्डामरभुजस्थाम्नामु(म)नास्था क्षामधामसु ॥ २०४ ॥
अथाभूद्गोकुलं सर्वं शिशुना तेन कान्तिमत् ।
पूर्वाद्रेरिव बालेन प्रालेयद्युतिना शिरः ।। २०५
तदासीदुद्यदानन्दं मनो नन्दयशोदयोः।
तादृशस्य सुतस्याप्तौ को हि नाम न हृष्यति ॥ २०६ ॥
नन्दोऽथ तस्य कृष्णत्वान्नाम कृष्ण इति व्यधात् ।
अङ्कमारोप्य गोप्यस्तं लालयन्ति स्म विस्मिताः ॥ २०७॥
ववृधे गोकुले बालः पाल्यमानो यशोदया ।
सिच्यमानः शचीदेव्या कल्पद्रुरिव नन्दने ॥ २०८ ॥
गच्छन्नुत्सङ्गमुत्सङ्गात्पाणिं पाणेश्च संचरन् ।
स गोकुलमृगाक्षीणामभूदत्यन्तवल्लभः ॥ २०९ ।।