पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।

रक्षोपायस्त्वसावस्ति नन्दो मे गोकुलाधिपः ।
तनूजमेनं यत्नेन स गुप्तं वर्धयिष्यति ॥ १८५ ॥
इति पत्या कृताश्वासा जातविश्वासमानसा ।
देवकी पालयामास गर्भं सुखसुखेन तम् ॥ १८६ ॥
अयं मे हन्त हन्तेति भीतः कंसोऽपि पत्तिभिः ।
रक्षां सप्तमगर्भस्य करोति स्म विशेपतः ॥ १८७ ।।
अथोर्जस्विप्रभाजालं श्रीवत्साङ्कितवक्षसम् ।
आश्विनस्य सिताष्टम्यां लग्ने लोकोत्तरे निशि ॥ १८८ ॥
लक्षणाख्यातसंभाव्यभरतार्धमहर्द्धिकम् ।
देवताधिष्ठितं देवी देवकी सुपुवे सुतम् ।। १८९ ।। (युग्मकम्)
ये यत्र गर्भरक्षार्थमासन्कंसपदातयः ।
ते भरतार्धदेवीभिर्निद्रामानिन्थिरे तदा ॥ १९० ॥
ज्ञात्वा निद्रायितांस्तांस्तु देवी शौरिमजूहवत् ।
सोऽपि तं बालमादाय प्रतस्थे गोकुलं प्रति ॥ १९१ ॥
देवमुक्तपतत्पुष्पदन्तुरीभूतभूतलाम् ।
प्रज्वलद्दीपिकाश्रेणिविश्राणितनवश्रियम् ॥ १९२ ।।
शौरिः सुरैघृतच्छत्रमुद्भूताद्भुतचामराम् ।
तनयं तनयन्नुग्रसेनेनाजल्पि गोपुरे ॥ १९३ ।।
किमेतद्दृश्यते नेत्रप्रियं भावुकमद्भुतम् ।
कथय प्रथय श्रोत्रपुटे पीयूषसारणिम् ॥ १९४ ॥
ततः स्मेरमुखः शौरिरेतस्मात्काष्ठपञ्जरात् ।
यस्त्वां मोचयिता सोऽयमिति मन्दमचीकथत् ॥ १९५॥
सोऽप्यूचे कंसतः प्राप्तो बन्धोऽप्येष धिनोति माम् ।
येन जागरितोऽद्राक्षमपूर्वमिदमद्भुतम् ॥ १९६ ॥

"श्रावणस्य” इति पण्डितदेवविजयगणिविरचिते गद्यमये पाण्डवचरिते स्थितः अत्र "श्रावणस्यासित्ताष्टम्याम्" इति भवेत् ।