पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

त्वत्पदे हन्त कुन्ती चेत्कन्यां कांचिदसोष्यत ।
ततस्तस्याः पतिर्नूनमरक्षिष्यत्तपःसुतम् ।। ६६८ ॥
इत्याद्यम्भोजनाभेन तर्जितो मुहुरर्जुनः ।
धावति स्मानुराधेयममर्ष इव मूर्तिमान् ॥ ६६९ ।।
स धावन्वृषसेनेन राधेयतनुजन्मना ।
क्षणं मार्गद्रुमेणेव सिन्धुरः प्रत्यरुध्यत ॥ ६७० ॥
अभिमन्युवधस्मृत्या तरङ्गितरयोऽर्जुनः ।
तूलशैलमिवाकृच्छ्रात्तं ममन्थ महाबलः ॥ ६७१ ॥
तदीयवधनिर्भिन्नचेतास्त्यक्त्वा तपासुतम् ।
राधासूनुरधाविष्ट स्पष्टकोपोऽनु फाल्गुनम् ।। ६७२ ।।
तस्मिन्विरमापिताशेषविश्वे दोःस्तम्भजृम्भितैः ।
आगच्छति जवाच्छौरिरवोचत्सव्यसाचिनम् ॥ ६७३ ।।
पार्थ नन्वेति राधेयः श्वेताश्वः शल्यसारथिः ।
नागकक्षाध्वजः साक्षादिव वीरो रसः पुरः ।। ६७४ ।।
आजन्मकार्मुकाभ्यासतारतम्यं द्वयोरपि ।
इदानीं युवयोर्जन्यदक्षयोर्लक्षयिष्यते ॥ ६७५ ॥
मा पुनः सिंहिकासूनुकान्तस्येव विवखतः ।
कर्णरुद्धस्य तेजस्ते समस्तमपि गात्कचित् ।। ६७६ ॥
इत्युदीर्य मुकुन्देन वचसा सव्यसाचिनः।
नोदिताश्वो रथः कर्णरथं प्रत्यचलजवात् ।। ६७७ ।।
संमुखीनौ तदान्योऽन्यं धन्विनौ तौ रुषारुणौ ।
वासरादौ तुषारांशुभास्कराविव रेजतुः ॥ ६७८ ।।
किंकिणीजालवाचालौ विलोलध्वजपल्लचौ।
आहासातामिवान्योऽन्यं रथावपि तयोस्तदा ।। ६७९ ।।
तावुभावनुरूपारिलाभलम्भितसंमदौ ।
अभूतामुच्चरोमाञ्चत्रुटत्कचकबन्धनौ ।। ६८० ।।