पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

गिराथ कुरुनाथस्य वचस्तन्भद्रभूपतेः ।
अङ्गीचक्रेऽङ्गभूपालः कालज्ञा हि मनीषिणः ॥ ६२९ ।।
प्रतिजज्ञेच चेत्प्रातः काश्यपीमकपिध्वजाम् ।
न करोमि तदा नूनं हव्यवाहं विशाम्यहम् ॥ ६३० ॥
अथोदगात्प्रगे भानुस्तिमिरानीकमन्तयन् ।
तत्प्रहारव्रणोद्गीर्णैः शोणितैरिव शोणितः ॥ ६३१ ॥
पुरो विधाय राधेयं ततस्ते शल्यसारथिम् ।
आययुः सज्जितक्रूरवारणं कौरवा रणम् ॥ ६३२ ॥
राजहंसकृतोत्तंसा पुण्डरीकौघमण्डिता ।
समित्सीमां समागच्छत्पाण्डवीयापि वाहिनी ॥ ६३३ ।।
गम्भीरवीरसंरम्भसंभ्रान्तभुवनत्रयः ।
वल्गति स्म ततो बाणधोरणीभीषणो रणः ॥ ६३४ ॥
निष्कामन्ति स्म केषांचिदिषवश्च शरासनात् ।
प्राणाश्च प्रतिवीराणां स्पर्धयेव शरीरतः ।। ६३५ ॥
वितेरुः फलमस्मभ्यं कर्मण्यविहितेऽप्यमी ।
इति प्रीता इवान्येषां शराः किं किं न तेनिरे ।। ६३६ ॥
दन्तान्दन्तावलेन्द्राणामसिना कश्चिदच्छिनत् ।
असावपि ततश्छिन्ने निन्ये तानेच शस्त्रताम् ॥ ६३७ ।।
वीरप्रहारमूर्छालचेतसः पतिता अपि ।
हुंचक्रिरे चिरं शून्यक्षिप्तकौक्षेयकाः परे ॥ ६३८ ॥
क्व रे पार्थः क्व रे पार्थ इति जल्पन्तमुच्चकैः ।
सधैर्यमथ राधेयमभ्यधान्मद्रभूपतिः ॥ ६३९ ॥
मूर्ध्नि कर्ण न कर्णौ ते हृदये न विवेकिता ।
नान्तरात्मनि चैतन्यमिति मे मन्यते मतिः ॥ ६४० ॥
यत्प्रतिज्ञामकास्त्विमात्मनीनेतरामिमाम् ।
यथा दोर्विक्रमाचन्नद्य वध्यो मयार्जुनः ॥ ६४१ ॥