पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५६२ काव्यमाला।

राधेयोऽपि विभावर्यां स्कन्धावारमुपेयिवान् ।
धार्तराष्ट्रमभाषिष्ट कनिष्ठवधदुःखितम् ॥ ६१६ ॥
राजन्नर्जुन एवास्ति पाण्डवीये बले शिरः ।
छिन्ने तस्मिन्नशेषं तल्लप्स्यते शवकल्पताम् ॥ ६१७ ।।
प्रथमैवाहुतिः सोऽपि मामके बाणपावके ।
किं पुनः समरे सूतमुखमालोकते जयः ॥ ६१८ ।।
पार्थस्य सर्वकर्मीणः स सारथिरुदारधीः।'
वर्तते मे पुनः कश्चित्सारथिर्न तथाविधः ॥ ६१९ ॥
तन्मे मातलिना तुल्यं शल्यमर्पय सारथिम् ।
हत्वार्जुनं यथा बन्धुशोकमुन्मूलयामि ते ॥ ६२० ।।
ततो मन्द्रेन्द्रमाहूय गौरवात्कौरवाधिपः ।
सारथ्यमर्थयांचक्रे चम्पेशस्य कृताञ्जलिः ॥ ६२१ ॥
शल्योऽवोचत्किमौचित्यवन्ध्यमित्यभिधीयते ।
क्व जन्यकुलीनोऽहं सूतसूतिरसौ क्व च ।। ६२२ ।।
किं नाम न त्रपे काममस्याहं सारथीभवन् ।
काकोले कलहंसस्य दास्यं हास्यं न किं भवेत् ।। ६२३ ॥
कौरवेन्द्रस्ततोऽवादीदिदं मद्रेश मा वद।
आतुरे हि सुहृद्धाचामौचिती न विचार्यते ॥ ६२४ ॥
धीराः कार्ये हि मित्राणामकृत्यमपि कुर्वते ।
मित्रकार्य विचारश्च नैकत्र खलु खेलतः ।। ६२५ ॥
तत्त्वमिच्छसि यद्यस्मिन्संपराये जयं मम ।
तद्दूरीकुरु कर्णस्य सारथ्यं समराजिरे ।। ६२६ ।।
इति दाक्षिण्यमत्यन्तमानीतः कुरुभूभुजा ।
स्मृतपूर्वी च माद्रेयो प्रत्यूरीकृतमात्मना ।। ६२७ ।।
शल्योऽब्रवीत्करिष्येऽहमेतत्तर्हि भवद्वचः ।
किंतु कर्णेन सोढव्यः स्वैरजल्पो रणे मम ।। ६२८ ॥
(युग्म)