पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

अवोचत च रे कर्मचण्डाल मलिनाशय ।
दुरात्मन्कुरुभूपालगोत्रहालाहलद्रुम ॥ ६०३ ॥
अधर्मेकमय क्षत्रजातिपूर्णेन्दुलाञ्छन ।
अकीर्तिकन्दलीकन्दमूल दुर्नयशेवधे ।। ६०४ ॥
द्रौपदीप्रसभावृष्टिपांसुवृष्टिरजस्वलः।
स त्वदीयो भुजः कोऽयं ननु संप्रति दर्शय ॥६०५ ॥
इत्युदीर्य भुजेनाद्यं वैरप्रसवशाखिनम् ।
दौःशासनं भुजं भीमः समूलमुदमूलयत् ।। ६०६ ॥
तन्मूलोत्थैरसम्बिन्दुसंदोहैरङ्गसङ्गिभिः ।
निर्ववौ नितरां भीमो जितलोहितचन्दनैः ॥ ६०७ ॥
रोषभीममुखे भीमे दुःशासनमरंतुदम् ।
खण्डीकुर्वति दत्तारं प्रतिकारमिव द्विपे ॥ ६०८ ॥
सर्वस्मिन्विद्रुते त्रासात्सैन्ये तत्प्रांशुवाससा ।
भियेव द्यौरपि छन्नदिनेशवदनाभवत् ॥ ६०९।। (युग्मम् )
दिदीपे नितरां भीमस्तीर्णसंगरसागरः ।
क्लेशाकूपारपारीण इव योगीन्द्रपुंगवः ।। ६१० ॥
शङ्के नाकिविमानानां मिलितानां कुतूहलात् ।
प्रेरितः पौनरुत्तये {न] ययौ व्योमान्तमंशुमान् ॥ ६११!!
निषिद्धे रणसंरम्मे ततोऽधिकृतपूरुषैः ।
वरूथिन्यावुभे खं खं संनिवेशमगच्छताम् ॥ ६१२ ।।
दुःशासनवधाधानसुभगंभावुकागमम् ।
नेत्राभ्यां द्रौपदी भीमं दूरादायान्तमापपौ ॥ ६१३ ॥
भीमाऽप्यभ्येत्य पाञ्चालीमालिङ्गय कबरी स्पृशन् ।
दुःशासनवधोदन्तमानन्देन न्यवेदयत् ॥ ६१४ ॥-
सापि विज्ञातनिःशेषवृत्तान्तापि परिच्छदात् ।
शृण्वती वल्लभाद्भूयः कामप्यागाद्दशां पराम् ॥ ६१५॥