पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५४२ काव्यमाला। ५४२ काव्यमाला।

निहन्ति स्म स एकोऽपि कोटिशः सुभटात्रणे ।
उद्वेलो हि महाम्भोधिः सर्वान्प्लावयते गिरीन् ॥ ३६० ॥
तस्यैकधन्विनो भूपाः शरैर्विव्यथिरेऽधिकम् ।
अकालजलवाहस्य सलिलैरिव शालयः ॥ ३६१ ॥
शल्यकर्णकृपद्रौणिकृतवर्मसुयोधनः ।
स नासह्यत सस्यौघैस्तीव्रताप इवानलः || ३६२ ॥
तान्विक्षिप्य क्षिणोति स्म लक्ष्मणप्रभृतीनसौ ।
बहून्कुमारान्दुष्कर्ममहिमेव मनोरथान् ॥ ३६३ ॥
अथैनं दुर्जयं ज्ञात्वा कौरवानीकनायकाः ।
तुल्यमावारिषुः सर्वे कोलं को(कौ)लेयका इव ॥ ३६४ ॥
तमेकमपि तेऽभूवञ्जेतुं विश्वेऽपि नेश्वराः ।
शृगाला इव शार्दूलं तरणिं तारका इव ।। ३६५ ।।
तस्यादलयदिष्वासमङ्गेशः सारथिं कृपः।
कृतवर्मा रथं सोऽथ युयुधे खड्गचर्मभृत् ।। ३६६ ।।
तस्य द्रौणिः क्षणात्कोपहव्यवाहस्य दीव्यतः ।
धूमदण्डनिभं काण्डैमण्डलायमखण्डयत् ॥ ३६७ ॥
स्वकीर्तिकमलक्षेत्रतृणस्तम्बोपमांस्ततः ।
चक्रेण राजचक्रस्य मौलीनभ्युद्दधार सः ।। ३६८ ॥
इत्यनेकायुधैर्युद्धं कुर्वन्कोपात्पिपेष सः ।
गदादम्भोलिना शैलनिभं दौःशासनं रथम् ॥ ३६९ ॥
युध्यमानस्ततस्तेन दुःशासनसुतेन सः ।
प्रजह्रे ह्रियमुत्सृज्य समं सर्वमहारथैः ॥ ३७० ॥
इति नानास्त्रसंपातजर्जरीकृतविग्रहः ।
पपात स भुवः पृष्ठे छिन्नमूल इव द्रुमः ॥ ३७१ ॥
मृतमारणदौरात्म्यात्स्वकीर्तिलतया समम् ।
ततो दौःशासनिस्तस्य निस्त्रिंशेनाच्छिनच्छिरः ॥ ३७२ ॥