पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ५४१

अभिमन्युरथावादीदार्जुनिमहिमोर्जितः।
द्वारकायां पुरा तिष्ठन्प्रवासे वः पुरान्निजात् ॥ ३४७ ।।
मुखात्कस्यचिदश्रौषमहं गोविन्दसंसदि ।
प्रवेशं केवलं चक्रव्यूहस्य न तु निर्गमम् ॥ ३४८ ॥ (युग्मम्)
भाषते स्म ततो भीमस्तस्कृतं शङ्कयाधुना ।
त्रैगर्तविजये प्रातर्गतेऽपि प्लवगध्वजे ॥ ३४९ ।।
चत्वारोऽपि वयं सर्वान्निर्भिद्य प्रसभं भटान् ।
मार्गमासूत्रयिष्यामो निर्गमाय बलादपि ।। ३५० ।। (युग्मम्)
इत्यालोच्य ततः सर्वे पाण्डवाः सपरिच्छदाः ।
विश्रमाय रणश्रान्ताः स्थानं जग्मुर्निजं निजम् ।। ३५१ ॥
प्रातर्जिष्णुस्तपासूनुमभिमन्यु च रक्षितुम् ।
नियुज्य कामं भीमादीन्संसप्तकजये ययौ ।। ३५२ ।।
एत्य द्रोणो रणक्षेत्रं धर्मसूतेजिघृक्षया ।
चक्रे संसारचक्रामं चक्रव्यूह दुरुत्तरम् ॥ ३५३ ।।
पाण्डवा अपि निःशेषैरभिमन्युपुरःसरैः ।
सार्धं धनुर्धरैर्युद्धधरित्रीमध्यरत ॥ ३५ ॥
रक्तपाटलबिस्फूर्जच्छिलीमुखकुलाकुलः ।
प्रवीरजीवनग्रीष्मः समरः सैन्ययोरभूत् ।। ३५५ ॥
अभिमन्यु पुरोधाय चत्वारोऽप्यथ पाण्डवाः ।
सौष्ठवेनोदतिष्ठन्त कल्पान्तमिव सागराः ॥ ३५६॥
ते यमा इव पञ्चापि द्रोणं निर्जित्य कर्मवत् ।
दुर्भेदं विभिदुश्चक्रव्यूह संसारचक्रवत् ॥ ३५७ ॥
क्षान्त्यादिभिः 'फलोदग्रैः कषायानिव संयमी।
पाण्डवांश्चतुरोऽरौत्सीत्कङ्कपत्रैर्जयद्रथः ॥३५८ ॥
समन्युरभिमन्युस्तु निस्तुषोत्साहसाहसः ।
तं व्यूहमविशद्भीष्मं पातालविवरोपमम् ॥ ३५९ ।।