पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५४० काव्यमाला।

महातिमिरिवाम्भोधिं महोर्मिमतिभैरवम् ।
तमायान्तमिभं पार्थः क्षुरप्रैर्विदधे द्विधा ॥ ३३४ ॥
दर्शयन्भगदत्तोऽथ महामात्रकलां निजाम् ।
ऊरुभ्यां गाढमाक्रम्य क्रमयामास तं बलात् ।। ३३५॥
तथैव प्रथयन्सैन्यसंमर्दमतिदुर्दमः ।
किरीटिनमनुक्रोधात्ततोऽधावत्स सिन्धुरः ॥ ३३६ ॥
तदा तेनावदानेन सानन्दमनसोऽमुचन् ।
दिवौकसो दिवः पुष्पवर्षं प्राग्ज्योतिषेश्वरे ॥ ३३७ ॥
तत्तस्मिन्नपतत्पश्चाद्भगदत्ते महीपतौ।
पूर्वमेवेषुवर्षे तु पतति स्म किरीटिनः ॥ ३३८ ॥
ह्रियन्ते स क्षणात्प्राणास्तेन प्राग्ज्योतिषेशितुः ।
वारिवर्षेण कासारस्येव राजीवराजयः ॥ ३३९ ।।
हते सकुञ्जरे तस्मिञ्जिष्णुना राजकुञ्जरे ।
कौरवीयबले राज्ञां शृङ्गभङ्ग इवाभवत् ॥ ३४० ॥
दयालव इव प्राणिकदम्बकदने तदा ।
दिक्पुरंध्यः प्रणुद्योचैर्निन्युरस्तगिरौ रविम् ॥ ३४१॥
द्रोणोऽथा पाण्डवानीकाव्यावृत्य खबलं ययौ ।
सरित्प्रवाहतो वेलाजलौघ इव सागरम् ॥ ३४२ ॥
प्रतिषिद्धे ततो युद्धसंरम्भे वेत्रपाणिभिः ।
वरूथिन्यावुभे खे खे स्कन्धावारमुपेयतुः ॥ ३४३ ॥
मध्यराने ततः पाण्डुपुत्राणां गूढपूरुषाः ।
अभ्येत्य कौरवानीकं किंवदन्तीमचीकथन् ॥ ३४४ ॥
भगदत्तवधक्रुद्धो भारद्वाजो गुरुः प्रगे।
चक्रव्यूह तपासूनुमादातुं रचयिष्यति ॥ ३४५ ॥
चरवाचमिति श्रुत्वा चक्रव्यूहभिदाविधिम् ।
सर्वैरालोचयांचक्रे(क्रुः) पार्षदैः सह पाण्डवाः ॥ ३४६ ॥