पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

प्लवङ्गकेतुना राजन्ननध्यासितसंनिधिम् ।
बद्धा धर्मात्मजं नूनमर्पयिष्यामि ते युधि ॥ २८२ ॥
इति द्रोणगिरा चिन्तामुल्लूय मनसः क्षणात् ।
धार्तराष्ट्रोऽवपत्तस्मिन्सद्यः पल्लविनीर्मुदः ।। २८३ ।।
तदैव सूत्रयामास स द्रोणं पृतनापतिम् ।
दन्तीन्द्रस्यैव दन्तीन्द्रव्यापारेऽलंभविष्णुता ॥ २८४ ॥
प्रातस्तद्विहितव्यूहरचनारञ्जिताशयः ।
आयोधनधुरां दुर्योधनः स्वैरमवातरत् ॥ २८५ ॥
कौन्तेया अपि गाङ्गेयदुर्दशादुर्मनायिताः ।
जयाशासप्रमोदाश्च समीकमुपतस्थिरे ॥ २८६ ।।
अथ व्यावल्गदाधीयः सैन्ययोरुभयोरपि ।
उज्जजम्मे ससंरम्भसिन्धुराधोरणो रणः ॥ २८७ ।।
नीरन्ध्रैरम्बरे पत्रैः सूत्रयन्तोऽब्दडम्बरम् ।
मिथः संघट्टसंभूतस्तन्वन्तस्तडितोऽग्निभिः ॥ २८८ ॥
अशीतकिरणस्यापि प्रतापमसहिष्णवः ।
द्वयानामपि वीराणां प्रेङ्खन्ति स शिलीमुखाः ॥ २८९ ॥
(युग्मम्)
शरैः शिरसि लूनेऽपि कयोरप्येकहेलया ।
कबन्धावप्ययुध्येतां तथैव कुपितौ मिथः ॥ २९॥
समं निस्त्रिंशनिस्त्रिंशघातोच्छलितसंगते ।
कयोश्चिच्छिरसी व्योनि दन्तादन्ति बितेनतुः ॥ २९१ ॥
कश्चिन्मौलौ विलूनेऽपि वैरिणा तरवारिणा ।
सकृपाणे पुनः पाणौ पातिते व्यरमद्रणात् ॥ २९२ ॥
हते प्रसभमात्मीयकबन्धेन विरोधिनि ।
कस्याप्यहसदुत्फुल्लनेत्रमाल्हादतः शिरः ॥ २९३ ॥
केषांचिद्दूरमुद्भुतैः पतितेभनिपातिभिः ।
बभूवे मौलिमिः सभ्यैः क्रीडतामसिवर्मभिः ॥ २९४ ॥