पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५३४ काव्यमाला।

तथापि वत्स वात्सल्यादिदानी किंचिदुच्यसे ।
विनयं च नयं चापि गुणावेतौ पुरस्कुरु ॥ २५७ ।।
विनयो विनयार्हेषु कीर्तिमावहते पराम् ।
रामे नम्रस्य सौमित्रेः पश्याथापि कियद्यशः ॥ २५८ ॥
क्रमानतिक्रमः कस्य न स्यादुदयहेतवे ।
क्रमेण क्रामतां पश्य ज्योतिषामुदयो ध्रुवः ॥ २५९ ॥
तत्तवार्पयितुं न्याय्यं राज्यं ज्येष्ठयुधिष्ठिरे।
वयं पूर्वमिव स्थातुमिन्द्रप्रस्थे तु युज्यते ।। २६०॥
उत्सार्य परतः किंचिज्जनमासन्नवर्तिनम् ।
कौरवेश्वरमेकान्ते गाङ्गेयः पुनरभ्यगात् ।। २६१ ॥
वत्स षाड्गुण्यचिन्तायामपि संधिस्तवोचितः ।
विग्रहं हि निषिध्यन्ति बुधाः सार्धं बलाधिकैः ॥ २६२ ॥
तेषु तेषु समीकेषु शैशवात्प्रभृति त्वया ।
बहुकृत्वः समालोकि बलं भीमकिरीटिनोः ॥ २६३ ॥
नीतिमान्नतिमानेव संजायेत बलीयसि ।
धायमाने धुनीपूरे नमन्नन्दति वेतसः ।। २६४ ॥
व्याजेन दर्शितेदानीं पार्थचापकला तव ।
ममोपधानपानेच्छा त्यक्तदेहस्य का पुनः ॥ २६५ ॥
तदद्यापि तपासूनोः श्रियं प्रत्यर्पय स्वयम् ।
रक्ष रक्ष विशेषज्ञ शेषराजन्यकक्षयम् ॥ २६६ ॥
इत्युक्तस्त्यक्तमर्यादः सुदुर्बोधः सुयोधनः ।
वर्धमानमनःसादः समाधत्त शनैर्वचः ॥ २६७ ।।
अन्तरेण रणं तात पाण्डवेभ्यो ध्रुवं मम ।
मनो नखशिखामानामपि धात्री न दित्सति ॥ २६८॥
उच्छलन्मत्सरोत्सेकपिच्छलामिति भारतीम् ।
श्रुत्वा दौर्योधनीं दूरं दूयते स पितामहः ।। २६९ ॥