पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

यत्तिर्यभिरनुच्छिष्टमस्पृष्टं च रवेः करैः ।
मञ्चेतस्तत्पयः पातुं वहति स्पृहयालुताम् ।। २४४ ॥
ततस्ते चिन्तयामासुरीदृगम्भोऽतिदुर्लभम् ।
यतस्तन्मानसाच्छोदप्रभृतिष्वप्यसंभवम् ॥ २४५ ॥
इति किंकार्यतामूढान्बाढमालोक्य तांस्तदा ।
भीष्मोऽक्षिपद्दृशं पार्थमुखं पीयूषवर्षिणीम् ॥ २४६ ॥
विज्ञाय तदभिप्रायं सोऽपि शस्त्रास्त्रकोविदः ।
मण्डलीकृत्य कोदण्डं संदधे वारुणं शरः ॥ २४७ ॥
उद्यदानन्दगोविन्ददृष्टिपातपवित्रितः।
यदैवापातयत्पार्थस्तदैव तमधोमुखम् ।। २४८ ॥
खच्छां तदैव तत्कीर्तित्रिस्रोतःस्रोतसः सखीम् ।
सर्वेऽप्यैक्षन्त निर्यान्तीं वारिधारां धरातलात् ।।२४९॥(युग्मम्)
पाण्डवानां कुरूणां च दृष्टिपातैः सितासितैः ।
जाह्नवीयमुनासङ्गभङ्गिमङ्गीचकार सा ॥ २५० ॥
ततस्तत्तोयमादाय किरीटी भीममभ्यगात् ।
सोऽपि नेत्रपुटैः पीत्वा प्रीतः पार्थमभाषत ।। २५१ ॥
वारीदमानयन्नेव तृष्णां त्वं वत्स मेऽच्छिदः ।
रोचिरुल्लासयन्नेव कोकस्येव शुचिं(च) रविः ॥ २५२ ॥
तन्निषीद सुखं वत्स ज्यायसो भ्रातुरन्तिके ।
एभिश्च विजयीभूयाः स्वगुणैर्भुवनातिगैः ॥ २५३ ॥
दुर्योधनमथोवाच हितां वाचं पितामहः ।
पार्थावदानतस्तस्य म्लानमुन्नमयन्मुखम् ॥ २५४ ॥
अस्मिन्कुरुकुले जन्म वत्स पुण्यैरवाप्यते ।
अनुत्तरेषु संभूतिर्न सम्यग्दर्शनं विना ।। २५५ ॥
एतत्कुलोचिता एव विस्फुरन्ति गुणास्त्वयि ।
सुरसिन्धुसरोजानां व्यभिचारि न सौरभम् ॥ २५६ ॥

पराक्रमात्