पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

पितामहं प्रणम्याथ जजल्प तपसासुतः।
शल्यानेतानि ते तात मनो दुन्वन्ति नो भृशम् ॥ २३१ ।।
तदादिश यथेमानि नीरन्ध्राण्युद्धराम्यहम् ।
करोमि चोमिकावार्मिः सर्वाङ्गव्रणरोहणम् ॥ २३२ ॥
ऊर्मिकायाः पुरो ह्यस्याः स्फूर्तिस्तातेन पाण्डुना ।
कीर्तिता मे मयापीयमीक्षांचक्रे च लक्षशः ॥ २३३ ।।
किं चाकृत्यकरैरेभिः पुत्रैरिव पतत्रिभिः ।
धत्ते पार्थः खनामाङ्कैस्त्रपावामनमाननम् ।। २३४ ॥
ततः प्रसीद सीदन्तं धिनु तात धनंजयम् ।
अनुज्ञामधुना देहि शल्योद्धारविधौ मम ॥ २३५ ॥
अथ धर्मात्मजं भीष्मः सप्रसादमभाषत ।
नैतानि वत्स शल्यानि व्यथयन्ति मनागपि ।। २३६ ॥
अरंतुदानि मे सन्ति भावशल्यानि यानि तु ।
सुखमेवोद्धरिप्यन्ति तान्येते गुरवोऽधुना ॥ २३७ ।।
देहमेवेदमात्मेति मतिर्येषां व्यवस्थिता ।
तेषामेव भवेद्देहव्यशल्यैरुपद्रवः ॥ २३८ ॥
ममामूनि पुनर्वत्स भिन्दानानि बहिर्वपुः ।
दुष्कर्ममर्मनिर्भेदे भजन्ते सहकारिताम् ।। २३९ ।।
विलम्ब्याथ क्षणं भीष्मः पश्यतः कंसविद्विषः ।
श्लिष्यन्निव दृशावादीत्पुरः कौरवपाण्डवान् ॥ २४०॥
मामप्यन्यमिवोदन्या वत्साः क्लमयतेऽधिकम् ।
ततः पानीयमानीय ममैतां हर्तुमर्हथ ॥ २४१ ॥
इत्याकर्ण्य सकर्णास्ते स्वच्छं सुरभि शीतलम् ।
नीरमानाययामासुर्मूर्तं मन इवात्मनः ॥ २४२ ।।
कृत्वा स्वर्णमये पात्रे पुरस्तैरुपढौकितम् ।
दूरान्निवार्य तद्वारि पुनरूचे पितामहः ॥ २४३ ॥