पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

अवस्थादौस्थ्यमेतस्य मन्ये वीक्षितुमक्षमः ।
विमुक्तवसुसर्वस्वः प्रापद्द्वीपान्तरं रविः ॥ २१८ ॥
तमस्तोमनिरस्तोऽसौ नक्षत्रोदयशालिनौ ।
कौरव्यश्च प्रदोषश्च द्वावप्यभवतां तदा ॥ २१९ ॥
अवहारस्ततस्तात तातेति परिदेविभिः ।
शोकान्धकारविधुरैश्चक्रे कौरवपाण्डवैः ॥ २२० ॥
उपेत्य पुरतो भद्रगुप्ताचार्यैरलंकृतम् ।
भीष्मो निन्ये विनीतैस्तैरासन्नगिरिकन्दरम् ॥ २२१ ॥
तं वृत्तान्तमुपश्रुत्य धृतराष्ट्रोऽपि संजयात् ।
तद्दत्तबाहुरुद्वाष्पो भीष्मान्तिकमुपाययौ ।। २२२ ॥
कौरवैः पाण्डवेयैश्च साश्रुनेत्रैः पितामहः ।
तेन तेनोपचारेण पुनः प्राप्यत चेतनाम् ॥ २२३ ।।
सुधारसमयीमेष दृशं न सुमुखेषु च ।
न्यवीविशत्तुषारांशुः कौमुदी कुमुदेष्विव ।। २२४ ।।
तेषामुत्फुल्लनेत्राणि तदानीं वदनानि च ।
भेजुरुद्धान्तभृङ्गाणि विकाशं कैरवाणि च ॥ २२५ ॥
मन्दं मन्दध्वनिर्नतुनथ प्राह पितामहः ।
वत्सा मे बाधते बाढं निराधारा शिरोधरा ॥ २२६ ॥
ततः सुखनिधानानि हंसतूलमयानि ते ।
उपादायोपधानानि विनयादुपतस्थिरे ॥ २२७॥
निषिध्य मूर्द्धकम्पेन तानाह्वाय पितामहः ।
अर्जुनामर्जुने दृष्टिं न्यस्यति स मिताननः ॥ २२८ ॥
विज्ञाततदभिप्रायश्चापमारोप्य फाल्गुनः ।
कङ्कपत्रमयीं तस्य न्यधादधिशिरोघरम् ॥ २२९ ॥
अदृष्टे वैरिभिः पृष्ठे साधु साध्वित्युदीरयन् ।
ज्याकृष्टिकृष्टिना सोऽथ पार्थं पस्पर्श पाणिना ॥ २३० ।।