पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ५२७

न तस्य भेजिरे वैरिश्रेणयः संमुखीनताम् ।
तरूणामापराह्णिक्यश्छाया इव विवस्वतः ।। १६६ ॥
केचिद्द्विषंतपैर्भीष्मसायकैराकुलीकृताः ।
क्षिपन्ति म परासूनां दन्तिनामन्तरे रथान् ।। १६७ ॥
अनीकप्रत्यनीकानां कामं विमुखतां गते ।
भीष्मस्य समरेऽतिष्ठदव्यापारः करश्चिरम् ॥ १६८॥
राकेन्दुमण्डलं भानुबिम्बस्येवाम्बरे ततः ।
शिखण्डिस्यन्दनो भीष्मरथस्याभूत्पुरो रणे ॥ १६९ ॥
शिखण्डिनमनूद्दण्डं धावन्तो धन्विनः परे ।
वृकोदरकिरीटिभ्यां नाराचैः प्रतिचक्रिरे ॥ १७०॥
पुरोऽवलोक्य कोदण्डचण्डपाणिं शिखण्डिनम् ।
वभूव रणसंरम्भमन्दो मन्दाकिनीसुतः ॥ १७१ ॥
कोटिशो भटसंभारसंहारविहितश्रमम् ।
धनुर्विक्रमयांचक्रे कृपयेव पितामहः ॥ १७२ ॥
हैमन्तिक इवादित्यो मन्त्रस्तब्ध इवानलः ।
जरीव हरिणारातिर्गाङ्गेयो ददृशे तदा ॥ १७३ ।।
ततः शिखण्डिना कामं भीष्मः खैरमताड्यत ।
गजो गम्भीरवेदीव न किंचित्तु विवेद सः ॥ १७४ ॥
एतस्मिन्नन्तरे हृष्टा धृष्टद्युम्नादयोऽपि तम् ।
सर्वे सर्वामिसारेण शरासारैरताडयन् ॥ १७५ ।।
प्रहारदारुणानेतान्वीक्ष्य गङ्गासुतस्ततः ।
कोपकम्प्राधरश्चापि रोपानारोपयत्पुनः ।। १७६ ॥
तच्चक्ररक्षिणौ दुर्योधनदुःशासनावपि ।
समं ववृषतुर्वेगावाणैः प्राणैकभिक्षुभिः ॥ १७७ ॥
न दिशो विदिशो नापि नाकाशं न च काश्यपी ।
आलोकि केवलं लोकैः शराद्वैतमयं जगत् ।। १७८ ॥