पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ५१७

उत्तरङ्गयशोराशिक्षीरनीरनिधिध्वनीन् ।
ते विडम्बयतो दध्मुर्जलजांश्च निजान्निजान् ॥ ३६॥
तन्नादेन तदाचान्त इवास्तमिव लम्भितः ।
प्राप्तवानिव विश्रान्ति रणतूर्यरवोऽभवत् ।। ३७ ।।
अथोवीर्य रथात्पद्भ्यामुपेत्य तपसः सुतः।
भीष्म कृपं च द्रोणं च कल्याणीभक्तिरानमत् ।। ३८॥
ततो वैजयिकीं तां तामुच्चार्य मुहुराशिषम् ।
तेऽतिप्रह्वमभाषन्त तं लज्जानिमिताननाः ॥ ३९ ॥
वत्स त्वयि न वात्सल्यमस्माकं परिहीयते ।
तथैव भवतोऽद्यापि भक्तिरप्यधिभूयसी ॥ १० ॥
परं किं कुर्महे वीर कौरवैर्भूरिभक्तिभिः ।
गृहीताः स्मस्तथा नैतान्यथा हन्तुं सहामहे ॥ ४१ ।।
अस्माभिर्जनताहास्यैर्धनेन निधनप्रदः ।
कृतः सुकृतहृद्दैन्यानिकायः कायविक्रयः ॥ ४२ ॥
युधि युष्माकमेवायं जयस्तु नहि संशयः।
यन्नासीरे महावीरौ न्यायधर्मी विसर्पतः ।। ४३ ॥
साक्षाद्विजयमूर्ति तामादाय गुरुभारतीम् ।
आगत्य पुनरारोहत्वं रथं स महारथः ॥ १४ ॥
समीके मनसा साकं विपक्षे सह चक्षुषा ।
इषूनवासिकाश्चण्डान्कोदण्डेष्वथ संदधुः ॥ ४५ ॥
दिक्कूलंकषनिर्घोषनिर्भराशेषरोदसः ।
ततश्चकृपुरिष्वासानुमयेऽपि धनुर्भृतः ॥ ४६॥
नवविस्फूर्तिदोःकीर्तिपटहोऽथ किरीटिनः ।
निपीतेतरविस्फारः स्फारितश्रुतिवैशसः ॥ १७ ॥
उल्ललास प्रतिस्वनैः कामं तुमुलयन्दिशः।
गाण्डीवकर्षणक्वाणः प्राणप्रावा(या)णिको द्विषाम्॥४८॥ (युग्मम्)