पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

बान्धवा बान्धवा एव बाढमप्यपकारिणः ।
एतेष्वपि मदिष्वासः संदधत्रपते शरान् ॥ २३ ॥
अथोज्जगार कंसारिर्ननु वीरावतंस ते ।
कृपानवाङ्कुरः कोऽयं क्षत्रधर्मविलक्षणः ॥२४॥
गुरौ पितरि पुत्रे वा बान्धवे वा धृतायुधे ।
बीतशङ्ख प्रहर्तव्य इति च क्षत्रियव्रतम् ॥ २५ ॥
बान्धवा बान्धवास्तावद्यावत्परिभवन्ति न ।
पराभवकृतस्तूचैः शीर्षच्छेद्या भुजावताम् ॥ २६ ॥
वैश्वानरः करस्पर्शं मृगेन्द्रः श्वापदखनम् ।
क्षत्रियाश्च रिपुक्षेपं न क्षमन्ते कदाचन ॥ २७ ॥
दायादा अपि हन्तव्या वहन्तो वैरिगृह्यताम् ।
तमोगृह्यान्निगृह्णाति ग्रहात्किं न ग्रहापणीः ॥ २८॥
प्रातुर्विश्वैकधानुष्के सत्यपि त्वयि बान्धवे ।
यत्कर्षन्ति द्विषो लक्ष्मीं सापि ते महती त्रपा ॥ २९ ॥
तत्कृपां शिथिलीकृत्य चापमादाय पाणिना।
आधिपत्यं भुवो भूयः स्वभ्रातुर्दातुमर्हसि ॥ ३० ॥
किं चामीषामुपेतोऽयमन्तः स्वैरेव कर्मभिः ।
त्वं तु केवलमेतस्मिन्हेतुमात्रं भविष्यसि ॥ ३१ ॥
अवश्यमव्यलीकस्य वधः पापाय जायते ।
धनुष्मन्तो जिघांसन्ति जिघांसन्तं पुनः परम् ॥ ३२ ॥
तद्गृहाण करे बाणान् चापमारोपय द्रुतम् ।
घानिष्यन्तेऽरिभिः पश्य पश्यतस्तव बान्धवाः ॥ ३३ ॥
इत्यादिष्टामुपश्रुत्य विष्टरश्रवसो गिरम् ।
समुत्तस्थौ शनैः पार्थः कार्मुकं कलयन्करे ॥ ३४ ॥
उभयोरपि कौन्तेयकौरवानीकयोस्ततः।
धनूंषि धन्विनो घोरनिर्घोषाण्यध्यरोपयन् ॥ ३५॥