पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

" ५१४ काव्यमाला।।

पीयूषांशुमयं मुखैः कुवलयश्रेणीमयं लोचनै-
र्नानारत्नमयैर्विमाननिवहैः संध्याम्बुदालीमयम् ।
कुर्वद्भिः कुरुपाण्डवेयसमरव्यालोकनव्याकुलै-
र्गान्धर्वामरखेचरैर्वियदलचक्रे तदानीं क्षणात् ॥ ५०३ ॥
इति मलपारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये दूतसोमकाग
मनप्रयाणकवलवर्णनो नाम द्वादशः सर्गः ॥ १२ ॥
त्रयोदशः सर्गः ।
अथैवं समय(यः) चक्रे सैनिकैरुभयैरपि ।
नावहारे प्रहर्तव्यं नापशस्त्रे न च स्त्रियाम् ॥ १॥
ततः प्रौढरथारूढौ वृकोदरकिरीटिनौ ।
धृष्टद्युम्नस्य सेनान्यश्चक्रतुश्चक्ररक्षिताम् ॥२॥
अथ प्रतिपताकिन्या भटानेकैकशः पुरः।
सूतं पप्रच्छ पक्षीन्द्रकेतनं कपिकेतनः ॥ ३ ॥
ततः प्रत्येकमालोक्य प्रतिपन्थिवरूथिनीम् ।
अभ्यधान्माधवो वाजिकेतुकीर्तनपूर्वकम् ॥ ४ ॥
एष तालध्वजः कालः साक्षादिव रणक्षितौ ।
सेराहतुरगो गङ्गासूनुः सर्वंकषो द्विषाम् ॥ ५ ॥
द्रोणः सोऽयमविद्राणकीर्तिः कलशकेतनः ।
शोणसप्तिः समित्सर्वधुरीणधनुरूर्जितः ॥६॥
इतश्चायं कृपाचार्यों ध्वजीकृतकमण्डलुः ।
धनुर्विद्यालताकन्दश्चन्दनाभतुरङ्गमः ॥ ७ ॥
सैष दुर्योधनो धन्वी नीलाश्वो नागकेतनः। ।
भुञ्जानस्य भुवं यस्य शल्यन्ति त्वद्भुजाः परम् ॥ ८॥
दुःशासनोऽयमानायकेतुः पीततुरङ्गमः ।
स्थितं यद्भयतो लीनैर्दानैर्मानैरिवारिभिः ॥९॥

पीयूषवर्णाश्वः.