पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५१० काव्यमाला। निवासेषु पदव्यां च रणक्षोणौ च सा चमूः । साक(ल्ये)नैव सर्वत्र महावृष्टिरिवाबभौ ॥ ४५२ ॥ अथोपेत्य समिद्भमौ पाण्डवेयस्य शासनात् । आरचय्य महद्व्यू(हाव्यू )हं भूनेतारोऽवतस्थिरे ॥ ४५३ ॥ यदैव च तपासूनोरनीकं समनह्यत । तदैव कौरवस्यापि शङ्खः सांनाहिकोऽध्वनत् ॥ ४५४ ॥ किं नामास्मिन्त्रणारम्भे भवितेति धिया समम् । अथ प्रजागरांचक्रुर्भूभुजो भुजशालिनः ॥ ४५५ ॥ वल्लभादोलताश्लेषसुखनिर्मग्नचेतसः । केचिद(त्त)ल्पं चिरादौज्झन्श्रुतशङ्खस्वना अपि ॥ ४५६ ॥ तदानीं विदितात्यन्तविप्रयोगागमा इव । स्वच्छन्दं दयितां केचिदालिलिङ्गुः पुनः पुनः ॥ ४५७ ॥ उत्सुकोऽसि खल खर्गे स्त्रीमोगेष्विति भाषिणी। प्रेयसी कंचिदुत्थास्नुमाश्लिष्य रुरुधे चिरम् ॥ ४५८ ॥ ताभिस्ताभिः कृतोत्साहै राजदौवारिकोक्तिभिः । संवर्मयितुमारेभे ततो विश्वंभराधवैः ॥ ४५९ ॥ नवोढदयितास्येन्दौ केचिनिर्मितदृष्टयः । उदस्तवर्मणोऽप्यने नापश्यन्ननुजीविनः ।। १६० ।। किं भविष्यत्यसौ जाते मम दैवादमङ्गले। शोचन्निति प्रियां कश्चिन्न संवर्मणमस्मरत् ॥ ४६१ ॥ किंचिदव्यक्तजल्पाकबाललालनलालसः । दशनानयनादेशमप्यदान्न निदेशिनाम् ।। ४६२ ।। श्रीशुद्धान्तगजाश्वादिचिन्तयाचान्तचेतसः t: 1 आरोप्यमाणमप्यङ्गे न वर्म विविदुः परे ।। ४६३ ॥ राजानो रेजिरे नद्धहाटकोत्कटकङ्कटाः । वैश्वानरा इवोदग्रज्वालाजालजटालिताः ॥ ४६४ ॥ १. देशनं कवचम्