पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ५०९ लुम्पल्लोकश्रुतिश्रेणीर्दारयनिगरिकन्दराः। उद्वेलयन्महाम्भोधीन्कम्पयन्काश्यपीतलम् ।। ४४०॥ शब्दाद्वैतमयीं रोदःसंपुटीं घटयन्निव । महानादोऽथ द्ध्वान दुन्दुभिः सांपरायिकः ।। ४४१ ॥ (त्रिभिर्विशेषकम्) अर्कवन्मकर धर्मसूतिरास्थितवानथम् । प्रतस्थेऽरिहिमोच्छित्त्यै रणक्षोणिमनुत्तराम् ॥ ४४२॥ स प्रातिपन्थिकस्तस्य प्लावयिष्यन्निवावनिम् ।। धृष्टद्युम्नं पुरस्कृत्य चचाल बलनीरधिः ॥ ४.४३ ॥ रथाङ्गपाणिः सारथ्यमाचरन्सव्यसाचिनः । ददृशे विसयाल्लोकैररुणस्येव भानुमान् ॥ ४४४ ॥ ममोत्पत्तिभुवो व्योन्नः शल्यान्येतान्यतो ध्रुवम् । निस्वाननिस्वनस्तस्य शैलशृमाण्यपातयत् ॥ ४४५॥ तस्सिन्सैन्यौघसमर्दे निरुच्छासे महीरजः । व्यश्नुते स चिरेण द्यामप्युद्भूतमनेकधा ॥ १४६॥ केतवः पवनैः काममनुकूलैस्तरङ्गिताः। इतो जय इतो लक्ष्मीरित्याख्यान्त्य(न्त) इवाचभुः ॥ ४४७॥ रेणुरान्वीपिकैर्गन्धवाहरुद्वाहितः पुरः । नासीरस्यापि नासीरे द्विषो जेतुमिवाचलत् ।। ४४८ ॥ भटाः शत्रून्न पश्येयुरेभिरन्धभविष्णवः । इतीवाशमयदा(न् दा)नैः क्षोणिरेणून्करेणवः ।। ४४९ ॥ शूरस्यापि परस्योच्चैःकरक्षेपासहैरिव । कामं वीरायुधैर्भास्वत्कराश्लेषात्मजज्वले ॥ १५०॥ विमानैरनुकामीनैः खेचराणां मणीमयैः । चकाशे दूरमाकाशे कुर्वद्भिः कमलाकरान् ।। ४५१ ॥ . अनुकूलैः.