पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । मदाम्बुपङ्किलीभूताः कणकनकशृङ्खलाः । काश्यपीशयनादुच्चैरुदस्थाप्यन्त दन्तिनः ॥ ४१४ ॥ सादिभिर्दुतमभ्येत्य रणत्काञ्चनभूषणाः । सर्वतोऽप्युदमोच्यन्त वल्लितोऽश्वमतल्लिकाः ॥ ४१५ ॥ मा स्म कातरता काचिद्वन्धुलोकस्य भूदिति । दृढशौण्डीरवर्माणोऽप्युर्वीशाः समवर्मयन् ।। ४१६ ॥ हृदि यस्यैकदेशेऽपि वरूथिन्यो ममुर्द्विषाम् । युक्तमेव भटस्याङ्गं ममौ वर्मणि यत्नतः ॥ ४१७ ॥ सहिष्यतेऽरिनाराचान् किमेतदिति केचन । परीक्षितुमिवाविध्यन् वर्म रोमाञ्चतोमरैः ।। ४१८ ॥ अनालोक्य मुखं संयत्याहास्यन्ते द्विपो न नः । इति केचिच्छिरस्त्राणं नात्मनः शिरसि न्यधुः ।। ४१९ ॥ क्षणमात्रान्महामात्रैरिभाः संवर्मिता बभुः । भा(सा)नुमन्तो नितम्बान्तलम्बमानाम्बुदा इव ।। ४२०॥ वार्धिकल्लोलतत्कालनिर्यदुच्चैःश्रवः श्रियम् । बिभ्रत्यः प्रक्षरोपेता रेजिरे वाजिराजयः ॥ ४२१ ॥ रथैर्वरूथिभिर्दिव्यैर्युक्तवाहीकवाजिभिः । काम रेजेऽवमन्वानैः पतङ्गस्य पताकिनम् ।। ४२२ ॥ अरिष्टाय द्विपां धर्मजन्मापि सह बान्धवैः । दंशिताको दुरीक्षोऽभूत्परिवेषीव भानुमान् ॥ ४२३ ॥ पश्चापि पाण्डवा रेजुधृतनानायुधास्तदा । कल्पान्त इव पाथोदाः स्फुरितानल्पविद्युतः ।। ४२४ ॥ पाथेयैरिव साम्भोभिर्निचित्य विविधायुधैः । संगरार्णवनौकल्पानारोहन्ते स्म ते रथान् ॥ ४२५॥ आरूढकल्पितानेकरथानेकपवाजिनः । भूभुजः परितो भेजुस्तानिन्द्रानिव नाकिनः ॥ ४२६॥