पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५०६ काव्यमाला। मया युधि हताः स्वर्गं यास्यन्ति रिपवः स्फुटम् । मद्वैरात्तत्र योद्धारस्ततः क्षुण्णाः क्व गामिनः ॥ ४०१॥ आत्तासिजर्जरान्स्वर्गभूमिकां ग्राहयन्नरीन् । रणरङ्गेऽभिनेष्यामि स्वामिलक्ष्मीस्वयंवरम् ॥ ४०२ ॥ मत्कृपाणप्रहारोत्थैर्मोक्तिकैरिभसंभवैः । द्विषो द्रक्ष्यन्ति सत्रासं दिवा तारकितां दिवम् ॥ ४०३ ॥ उन्नतः समरव्योम्नि ममासितनाम्बुभृत् । सूत्रयिष्यति संतापं केषां नाम न वैरिणाम् ॥ ४०४ ॥ कीर्तिप्रावारमुन्मुच्य बहिर्बाहूष्मतापिताः । कृपाणाम्भसि मङ्खन्ति मम के नाम नारयः ॥ ४०५ ॥ एकस्मिन्नेव निक्षिप्ता मदीयशरपञ्जरे । द्विषः सर्वेऽपि लप्स्यन्ते केलिपारावतोपमाम् ॥ ४०६ ॥ पास्यन्ति मे पिपासार्ता इव वेगेन गामिनः । विद्वेषिदन्तिनां दानवारिधारां शिलीमुखाः ॥ ४०७ ॥ आदास्यन्ति ममारातिदन्तिदानानि मार्गणाः । कीर्ति तु मत्प्रभोरेव करिष्यन्ति जगत्रये ॥ ४०८ ॥ इत्यादयस्तदानेकाः समीकोत्साहशालिनाम् । भटानामभवन्भूयो भूय एव मिथः कथाः ।। ४०९ ॥ (नवभिः कुलकम्) अथोन्निद्रजपात्रं तन्यमानो रविर्महः । उल्ललास दिशि प्राच्यामानन्दैः सह दोषमताम् ॥ ४१० ॥ सर्वाञ्जागरयन्सैन्यराजन्यान्सह विक्रमैः । वारिजन्मानि दध्वान द्राक्संनाहनिकस्ततः॥ ४११ ।। श्रोत्रेणान्तःप्रविष्टैस्तन्नादैरुद्वेलिता इव । निर्ययुः पुलकव्याजान्महीशानां बहिर्मुदः॥ ४१२ ॥ रणराभसिकाः पत्तिस्यन्दनाश्चेभसज्जने । राजानोऽधिकृतानुचैस्त्वराभाजोऽप्यतत्वरन् ॥ ४१३ ।।