पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ५०५ द्रक्ष्यामो भटकण्ठस्था युद्धोत्सवमिति ध्रुवम् । विकाससुभगाभोगाः सृज्यन्ते स्म नवाः स्रजः ॥ ३८८॥ धृष्यते स्म प्रवीराणामङ्गरागाय चन्दनम् । पिष्यन्ते स्म ललामेभ्यो भूयस्यो मृगनाभयः ॥ ३८९ ॥ बलिपुष्पोपहारादिवस्तुभिर्भटवेश्मसु । पुरस्तादस्त्रदेवीनां प्रावर्तत महोत्सवः ॥ ३९० ॥ उपयाचितलक्षाणि देवताभ्यः पृथक्पृथक् । प्रतिशुश्रुविरे वीरदारैर्मर्तृजयैषिभिः ॥ ३९१ ॥ तत्पूर्वसंगमप्रेमकल्लोलिन्य इवोच्चकैः । प्रेयसो रहसि खैरमालिलिङ्गुर्भटाङ्गनाः ॥ ३९२ ॥ वीरसूतिरहं वीरस्नुषा च जगति श्रुता । अखण्डवीरपत्नीत्वमिदानीं तु मम क्रियाः ॥ ३९३ ।। भीताश्च सप्रमोदाश्च त्वय्येव रणरङ्गिाणि । विश्राम्यन्तु दिशः कामं वैरिणां च प्रमोश्च ते ॥ ३९४ ॥ निजकौक्षेयकक्षुण्णकुम्भिकुम्भस्थलोद्भवैः । विदध्यान्मौक्तिकैमी च स्वामिन्कीर्तिं च हारिणीम् ॥ ३९५ ॥ कुर्वीथास्त्वं तथा नाथ यथा त्वां पश्यतो रणे। भटीजनस्य सर्वस्य स्पृशामि स्पृहणीयताम् ॥ ३९६ ॥ निर्जित्यारीनुपेतस्य प्रथयिष्यामि नाथ ते । निबिडालिङ्गनैरेव प्रहारत्रणशोधनम् ॥ ३९७ ॥ इत्यालिङ्गय रहः काश्चिदुच्चरत्पुलकाङ्कुराः । उपस्थितरणान्प्रातः प्राणनाथान् बभाषिरे ॥ ३९८ ॥ (पडिः कुलकम्) वीरश्रिया पुरस्कृत्य प्रीत्या दृष्टोऽप्सरोगणैः । जयलक्ष्म्या समांश्लिष्टो नैव वीक्षिष्यसेऽपि नः ॥ ३९९ ॥ इत्युच्चैः कृतकासूया निर्भर वल्लभाजनैः । रणैषिणः स्मरमेरकपोलैः केचिदूचिरे ॥ ४०० ॥