पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। तदात्मीयवलैः सार्धं सर्वैरपि हरेर्बलैः । तिष्ठेथाः पुरतः प्रातराहवे मम बाहवे ॥ ३७५ ॥ (त्रिभिर्विशेषकम् ।। तद्वन्दिनो वचः श्रुत्वा शत्रुशौण्डीरिमोर्जितम् । दूरमङ्कुरितप्रीतिरभ्यधत्त युधिष्ठिरः ॥ ३७६ ॥ तस्यापि स्वप्रभोरेवं वन्दिराज निवेदयेः । त्वमप्येतद्वचः कार्षीर्मा विपर्यासपांसुरम् ।। ३७७ ॥ अहं तु यदि नाभ्येमि त्वत्प्रागेव रणाङ्गणम् । सूनृतव्रतिनस्तन्मे संपूर्णैवावकीर्णता ॥ ३७८ ॥ व्याहृत्येति हिरण्यौधैरमुं सत्कृत्य मागधम् । विसृज्य च तपासूनुर्ययौ कंसान्तकान्तिकम् ॥ ३७९ ॥ निवेद्य बन्दिनोद्गीर्णां कौरवीयां कथामिमाम् । स्वयं प्रथमसंग्राममच्युतं सोऽप्ययाचत ।। ३८० ॥ अरिष्टारिरभाषिष्ट पाण्डवेयं ततो हसन् । मामत्रैकतुलाछूते भागिनं न करिष्यसि ॥ ३८१ ॥ नहि साहायकापेक्षी नूनं तस्मिन् रणे जयः । महः पाण्डुमहीभर्तुर्यत्र देदीप्यतेतमाम् ॥ ३८२ ॥ तथापि सारथीभूय दर्श दर्श नवा नवाम् । कपिध्वजधनुष्मत्तां प्रीणयिष्ये दृशौ मम ॥ ३८३ ॥ धर्मभूतिः प्रतिश्रुत्य तां गिरं मुरविद्विषः । गत्वा च खचमूर्युद्धसंवाहाय समादिशत् ।। ३८४ ॥ मतिमान्सर्वसंमत्या द्रुपदोशिनन्दनम् । पताकिनीपतिं चक्रे धृष्टद्युम्नं युधिष्ठिरः ॥ ३८५ ॥ नानावर्णास्तदैवान्तःक्रोधार्चिष्मच्छिखा इव । स्कन्धावारप्रवीराणां नेत्रपट्टा विनिर्ययुः ॥ ३८६ ।। रणारम्भोत्सवो वीरकवलाय भटावलेः । करम्भाकारकाभासो निरपाद्यन्त दाधिकाः ।। ३८७ ।।