पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ५०३ गाङ्गेयस्य रणे यावदातिरथ्यं प्रथिप्यते । न पाण्डवैः समं तावद्धारयिष्ये धनुर्यदि ॥ ३६२ ॥ इत्युदीर्य भुजावीर्यैर्मन्यमानस्तृणं जगत् । कर्णः क्रोधान्धलोऽगच्छदुत्थायास्थानमण्डपात् ।। ३६३ ॥ गतेऽस्मिन्नसुखायन्तं भीष्मोऽभाषिष्ट भूपतिम् । राजन्कोऽयमकाण्डेऽपि मुखे कष्मलिमा तव ॥ ३६४ ॥ प्रधने धृतधन्वाहं यदि कर्णेन किं तदा । न चेदुपात्तचापोऽस्मि राधेयेन तदापि किम् ॥ ३६५ ॥ अथाभ्यधायि गान्धारीतनयेन पितामहः । चेत्प्रसीदसि मे तात किंचिद्विज्ञापयाम्यहम् ॥ ३६६ ॥ तातमेवयमध्यास्तां रणभारधुरीणता । धराभ्युद्धारधौरेयः को नामान्यः फणीश्वरात् ॥ ३६७ ॥ तां गिरं कौरवेन्द्रस्य प्रत्यश्रौषीपितामहः । सेनानी त्वेतदैवायमभ्यषिच्यत वामुना ॥ ३६८ ॥ अथ प्रस्थापितो राज्ञा गान्धारीतनुजन्मना । सुमेधा मागधोऽभ्येत्य पाण्डुनन्दनमभ्यधात् ॥ ३६९ ॥ राजन्दुर्वारदोवीर्यनिर्जितारातिमण्डलः । जल्पति त्वामिदं वीरो मद्विरा कौरवाग्रणीः ॥ ३७० ॥ त्वद्वान्तभुवः कीर्तेः संविभागमितपचः। अहमाद्यं रणारम्भ जरासन्धमयाचिषम् ।। ३७१ ।। तत्प्रातस्तात गाङ्गेयमाहवोत्सवदीक्षितम् । पुरस्कृत्यावतीणे मां द्रक्ष्यसि त्वं रणक्षितौ ॥ ३७२ ।। तदन्तर्मनसं कोऽपि सत्त्वोत्कर्षोऽस्ति चेत्तव । विश्वविश्वंभराभोगवैभवे च यदि स्पृहा ।। ३७३ ॥ यदि दोर्विक्रमोऽप्यस्ति तव कोऽपि पचेलिमः । बन्धवोऽपि रणोपास्तिसौवस्तिकभुजा यदि ॥ ३७४ ॥