पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५०२ काव्यमाला। ओमिति प्रतिपेदाने तां गिरं मगधेश्वरे । स्वावासान्सपरीवारो जगाम धृतराष्ट्रभूः ॥ ३४९ ॥ संगमय्य तदैवायं निजानेकमहीयसः । गाङ्गेयद्रोणकर्णादीन्सुभटानित्यभाषत ॥ ३५० ॥ समागच्छन्त्वगाधोऽयं प्रातःसंगरसागरः । उत्तरीतुमिमं युष्मद्दोर्दण्डा एव सेतवः ।। ३५१ ।। अति(नी)षत्करमप्युच्चैः कार्यमीषत्करं भवेत् । यत्रैकहृदयोत्साहधारिणः सहकारिणः ॥ ३५२ ॥ कृतसाहायकश्चन्द्रवसन्तमलयानिलैः । मुनीनामपि चेतांसि किं न मनाति मन्मथः ॥ ३५३ ॥ भवद्दोविक्रमैः कामं विजेष्येऽहं विरोधिनः । पक्षराजोऽपि यत्पःस्तरत्यम्बरसागरम् ॥ ३५४ ॥ वैरिखड्गाम्बुदुर्वारैोष्माकीणैर्भुजोष्मभिः । मदीया सततोल्लासमल्लिका कीर्तिमल्लिका ।। ३५५ ॥ जरासन्धोऽधुनाभ्यर्थ्य प्रार्थितः प्रथमाहवम् । स्वयं पाण्डुतनूजानां बद्धश्रद्धालुना मया ।। ३५६ ।। तदनुग्रहमाधाय निवेदयितुमर्हथ । स्वरूपं मे समग्राणामात्मनीनधनुष्मताम् ॥ ३५७ ॥ कियन्तोऽतिरथाः सम्यक्कियन्तश्च महारथाः। कति चारथाः सैन्ये सेनान्यं च करोमि किम् ।। ३५८ ।। अथाभाषत भीष्मस्तं राजन्किमिदमुच्यते । स्वयं वेत्स्येव यत्सत्यं रहस्यं सर्वधन्विनाम् ॥ ३५९ ॥ राधेयस्तु प्रमादी च कृपालश्च रणाङ्गणे । तेनाधरथ एवायमिति में प्रतिभासते ॥ ३६० ।। वचस्तदिदमाकर्ण्य कर्णाय विषसोदरम् । अभिधत्ते स राधेयः कोयकम्प्रोष्ठपल्लवः ॥ ३६१ ॥