पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ५०१ रेजे दुर्योधनावांसोऽप्युज्वलैस्तैः परिष्कृतः । मालतीमुकुलश्वेतैः श्वेतभानुरिव ग्रहैः ॥ ३३६ ॥ हास्तिकाश्वमयी रथ्यामयी पौस्नमयी(१) तथा । आसीद्वयैरनीकैस्तैः कुरुक्षेत्रोपकण्ठभूः ॥ ३३७ ॥ अथ सायंतनास्थानमास्थितो मगधेश्वरः । आददे गिरमध्यक्षं सर्वक्षोणीभृतामपि ॥ ३३८ ॥ मम चक्रस्य गोपालं कवलीकुर्वतो रणे । उपदेशपदे नूनं ते भविष्यन्ति पाण्डवाः ॥ ३३९ ।। राजता राजते चन्द्राद्विपरीतैव भूभृताम् । प्रणयादाश्रितं यत्ते मित्रमेवोपकुर्वते ।। ३४० ॥ यस्तु तादृग्विधो नैव स कथं राजशब्दभाक् । लभतां च कथंकारं गणनां पुरुषेष्वपि ॥ ३४१॥ तद्विधाय ध्रुवं प्रातर्महीखण्डमपाण्डवम् । नेष्यामि कुरुराजस्य राज्यं द्वैराज्यशून्यताम् ॥ ३४२ ।। अथोच्चैः कुबलीकृत्य करौ दुर्योधनोऽभ्यधात् । श्रोतुमर्हसि राजेन्द्र भारतीं मामिकामिमाम् ॥ ३४३ ॥ त्वयि शौण्डीर्यमाणिक्ये संगराङ्गणसंगिनि । आस्तामन्यः स्फुटं सोऽपि वराकः पाकशासनः ॥ ३४४ ॥ शत्रुमात्रेषु ते स्वैरं तेऽप्यलंभूष्णुविक्रमाः । ये तावकीनमाहात्म्यदेवतापात्रतां ययुः ॥ ३४५ ॥ तदस्य यशसः पाण्डुसूनुसंहारजन्मनः । वीरोत्तंस न मे गन्तुं त्वमर्हस्वंशहारिताम् ॥ ३४६ ॥ तमप्येतैः समं युद्धे हनिष्यामि हरिं यदि । तन्निदेश्यकृतत्वेन विशेषयशसे तब ॥ ३४७ ॥ तद्यावदेव कौन्तेयकौरवीयोऽयमाहवः । सभ्य एव भवेस्तावन्मयि भूयादनुग्रहः ॥ ३४८॥