पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५०० काव्यमाला। प्रातरेव कुरुक्षेत्रमयमायास्यति ध्रुवम् । वीरा हि प्रियसंग्रामा न नाम चिरकारिणः ।। ३२३ ।। इत्याकर्ण्य चरोद्गीर्णां तां कथां प्रतिपन्थिनः । हृष्यति म हृषीकेशः पैतृस्वस्रैः (१) सहाखिलैः ॥ ३२४ ।। प्रियाणां च रिपूणां च सविधे हि समागमे । सारङ्गाक्ष्यश्च शूराश्च बिभ्रते परमां मुदम् ।। ३२५ ॥ दापयामास चाराय मुरारिः पारितोषिकम् । नियोज्येषु प्रभोः प्रीतिर्न भवत्यफलेग्रहिः ।। ३२६ ॥ उद्यन्तोऽथ दिशि प्राच्यां सूर्यसारथिना समम् । अश्रूयन्त जनैरूर्जस्विनो निखाननिखनाः ।। ३२७ ।। श्यामायुष्टोमयज्वानो ध्वान्तमेदस्करोदयाः । निपीतमसरदाखदंशयः पासवोऽस्फुरन् ।। ३२८॥ जितोच्चैर्मन्दरक्षुब्धक्षुभिताम्भोनिधिध्वनिः । आकर्ण्यतोल्लसत्कर्णैः सैन्यकोलाहलो जनैः ॥ ३२९ ।। अवतरुस्ततः सार्धं करैः किरणमालिनः । दामोदरचमूलोकलोचनाध्वनिकेतवः ॥ ३३० ॥ रोधस्येव सरस्वत्यास्ततः सान्द्रतरद्रुमे । दवीयस्येव गोविन्दस्कन्धावारस्य भूतले ।। ३३१ ॥ अगृह्यन्त जरासन्धसैनिकैवीतभीतिभिः । निवासा वासवागारगर्वसर्वखहारिणः ॥ ३३२ ॥ (युग्मम्' निवासो मगधेशस्य तैः शशाङ्कसितः सितैः । रोचते स्म तुषाराद्रिरिव प्रत्यन्तपर्वतैः ।। ३३३ ।। कर्णादीनां प्रवीराणां शल्यादीनां महीभृताम् । जाहवीतनयादीनां स्कन्धावारगरीयसाम् ॥ ३३४ ॥ समभूवन्यथास्थानं स्वस्वकेतनशालिनः। आवासा हास्तिकाश्वीयरथ्यापादातशोभिनः ॥ ३३५ ॥