पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । गान्धारेयस्तु धौरेय एव दुर्मेधसामसौ । न खल्वर्हति वृद्धानामुपदेशं मनागपि ॥ ३१० ॥ एकस्तावजरासन्धो दु(ोधनोऽपरः । सैष ग्रीष्मर्तुसंतापकालकूटसमागमः ॥ ३११॥ दावपावकवत्सर्व निर्दह्य कुलकाननम् । नूनमेतौ दूरात्मानौ निर्नाम क्षयमेप्यतः ।। ३१२ ॥ अथासौ कौरवानीकैरैन्दवैरिव रश्मिभिः । चचाल मांसलीभूतो जरासन्धवलोदधिः ॥ ३१३ ॥ प्रागभ्यासा इवात्मानमुदवाहा इवार्णवे। भूमुजः कटकं तस्य विशन्ति स्म सहस्रशः ।। ३१४ ।। तद्वलाक्रान्तभूभारो द्वारसाहायकार्थिना । फणिनोऽन्ये फणीन्द्रेण प्रार्थयांचक्रिरे ध्रुवम् ॥ ३१५ ॥ तत्तुरङ्गखुरापातैर्विव्यथे पृथिवी तया । रजोव्याजेन संजज्ञे यथागमनगामिनी ।। ३१६ ॥ तदा सत्यापयामास स्वां महोबलतां मरुत् । अभूद्वीरावतंसस्य यदस्य प्रातिलोमिकः ।। ३१७ ॥ गच्छन्तं मृत्यवे मित्र त्वमप्येनमुपेक्षसे । इतीवादित्यमभ्येत्य शिवाः कामं ववाशिरे ।। ३१८ ॥ अनीयुषीणां तत्सैन्यशोषिताशेषपाथसाम् । वार्धिः शङ्केत्र कान्तानां विभर्ति विरहव्यथाम् ॥ ३१९ ॥ किमेते भूभृतो हन्त पृथक्कटकशालिनः । इति क्रोधादिवानीकैराचक्राम स भूधरान् ।। ३२० ॥ अनूपान्जङ्गलीकुर्वजङ्गलानप्यनूपयन् । उर्वीमनुर्वी कुर्वाणः सूत्रयन्ननगानगान् ॥ ३२१ ॥ व्यक्तशक्तिर्जरासन्धः सोऽयमन्यः प्रजापतिः । समं कुरुबलैरागान्निकटे कोटरावणे ॥ ३२२ ॥ (युग्मम् )