पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४९८ काव्यमाला। भरं वोढुमसंभाव्यमन्ये सैन्यस्य तावतः । देव तन्नगरोत्सङ्गे चकम्पे काश्यपी मुहुः॥ २९७ ॥ प्रभो वि विभाव्येव विपदर्णवमन्जनम् । दिशः श्याममुखाः कामं जज्ञिरे मलिनाम्बराः ॥ २९८॥ सैन्यरेणुभिरश्रान्तं वारयिष्यामहेतमाम् । भियेवेति दिवो भानि झम्पामुल्काच्छलाद्ददुः ।। २९९ ॥ प्रसर्पत्त्वत्प्रतापानिज्वालाजालैरिवाभितः । अदृश्यन्त दिशा दाहाः पुरे तस्य दिवानिशम् ॥ ३०० ।। प्रस्थानोस्त्वदरित्रातं संहर्तुं समवर्तिनः । सैन्यैरुत्तम्भितः शङ्के दिवि केतुर्व्यजृम्भत ॥ ३०१ ॥ प्रस्थित्तोऽमीभिरुत्पातैर्नैत्यसाविति शङ्कया । निर्धाताः परितः क्षोणिवक्षोघाता इवाभवन् ॥ ३०२ ॥ क्रोधावेशादनादृत्य दुनिमित्तान्यमून्यपि । प्रयाणं कुरुभिः सार्धं विदधे मगधेश्वरः ॥ ३०३ ॥ हरिरित्यभिधायास्ते देवत्रस्त इवात्यजत् । आरुरुक्षोः क्षणात्तस्य कुञ्जरग्रामणीर्मदम् ॥ ३०४ ॥ तस्य प्रस्थास्यमानस्य वाहिनीवाजिकुञ्जरम् । पुरीषप्रसवौ चक्रे खखचक्रभयादिव ॥ ३०५ ॥ ज्ञाततद्विपदो राज्यलक्ष्म्या वक्ष इव क्षणात् । ताडनारम्भ एवोच्चैरस्फुटज्जयदुन्दुभिः ॥ ३०६ ॥ भीष्मद्रोणकृपादीनां कुरुसैन्यमहीयसाम् । तदासन् जातखेदानां परस्परमिमा गिरः ।। ३०७ ।। एतैर्दुष्टैः स्फुटं रिष्टैः संगरोत्सङ्गमीयुषाम् । शौण्डीराणामपि प्रायः प्रत्यावृत्तिर्न जायते ॥ ३०८ ॥ परं द्वैमातुरो राजा सोऽयमौद्धत्यमन्दिरम् । अथायत्येकपथ्यानामाप्तवाचामगोचरः ॥ ३०९ ॥