पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४९७. महानपि स मे कामं न किंचिदिव संगरे। स्थवीयानपि दम्भोलेभूधरः किल कीदृशः ॥ २८४ ॥ वह्निरिन्धनकूटेषु तपनस्तिमिरोर्मिषु । वीरश्च वैरवारेषु खाधिकेष्वपि शक्तिमान् ॥ २८५ ॥ जरासन्धशिरःस्कन्धाच्छिन्नमुच्छलितं दिवि । मम तस्य च दोष्कर्म रुद्रेण द्रक्ष्यते क्षणम् ॥ २८६ ॥ उन्नम्य समरव्योमन्यसिर्धाराधरो मम । निर्वापयिष्यति क्षोणिं जरासन्धभुजोष्मलाम् ॥ २८७ ।। दूरेऽहमर्जुनस्यापि शराणां तं जिघत्सताम् । - तैर्भविष्यत्यपोशान(?)मेव कौरवशोणितैः ॥ २८८ ॥ संख्यानं विषयातीतैर्बलौधैर्यदुभूभुजाम् । अमूभिः पाण्डवेयस्याक्षौहिणीभिश्च सप्तभिः ।। २८९ ।। अयमायात एवास्मि कुरुक्षेत्रक्षितौ क्षणात् । तत्राभ्येतु तदीशोऽपि यद्यस्ति भुजवैभवम् ॥ २९० ॥ (युग्मम्) इत्याकर्ण्योभयाकर्णिकीर्णज्वरभरां गिरम् । जरासन्धोऽपि जज्वाल कालानल इवाङ्गवान् ॥ २९१ ।। ततोऽभ्यधायि गान्धारीपुत्रैरासन्नवर्तिभिः । राजन्कोऽयमिभारातेः संरम्मो मृगधूर्तके ।। २९२ ॥ वयमेनं हनिष्यामः पृष्ठाधिष्ठायिनि त्वयि । पृष्ठस्थे किमु घमौशौ न नन्ति घृणयस्तमः ।। २९३ ॥ पाण्डुनन्दनकल्पान्तनाट्यं नाटयतां हि नः । वघोऽमुष्य भवन्नेत्रानन्दी नान्दी भविष्यति ॥ २९॥ खण्डयन्पाण्डवानेनं भुजो नः शोषयिष्यति । मेरुमुज्झति किं शैलान्मजयन्प्रलयार्णवः ।। २९५ ।। वारितोऽपि ततस्तैस्तैर्दुनिमित्तैः क्षुतादिभिः । आदिदेश जरासन्धः प्रस्थानाय वरूथिनीम् ॥ २९६ ॥ .