पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। देव द्वारवतीं गत्वा समुद्रविजयं नृपम् । देवादेशेन गोपालबालकौ तावयाचिषम् ॥ २७१ ॥ वर्षीयानप्यवर्षीयोबुद्धिरुद्धरकन्धरः । प्रभो ताभ्यां तु गोपाभ्यां स माति न जगत्यपि ॥ २७२। ब्रूते च स्वामिनस्तेऽहमीहकः किंकरोऽथवा । यदाक्रम्य कुमारौ मे दुर्मतिर्याचते बलात् ॥ २७३ ॥ अहीश्वरशिरोरत्नं नूनमादातुमीहते । नरकेसरिणोऽप्येष द्रष्ट्रामाक्रष्टुमिच्छति ॥ २७ ॥ तौ तु गोपालकौ देव नवतारुण्यपीवरौ । अहंकाराविवोत्साहाविवामर्षाविवाङ्गिनौ ।। २७५॥ ज्यायानेकोऽपि तत्रोद्यद्दोविलासः पिपासति । कुम्भोद्भव इवाम्भोधीन्सर्वान्युधि विरोधिनः ॥ २७६ ।। कनीयांस्तु भुजस्तम्भन्यस्तनिस्तुलधामभिः । चरित्रैश्चित्रिताशेषलोकैर्लोकोत्तरः परः ॥ २७७ ॥ असौ शक्तिं तृणायापि शतमन्योर्न मन्यते । मानुषीमलकीटानां पार्थिवानां तु का कथा ॥ २७८ ॥ कश्चित्वचिजरासन्धोऽप्यस्तीत्येवं न वेत्ति सः । भानुं जानाति न ध्वान्तश्चक्रवालगिरेः परः ॥ २७९ ॥ निहत्य तं तथा कंसमुत्तंसं वीरसंहतेः । सोऽभवदूरमुल्लुण्ठकण्ठीरव इव द्विपम् ॥ २८० ॥ तदूष्मकलितोष्माणोऽभूवन्नन्येऽपि यादवाः । किं न तिग्मांशुवर्गीणा ग्रावाणोऽप्यग्निवर्षिणः ॥ २८१ ॥ मारुतैरिव दावाग्निः पाण्डवैर्दत्तचण्डिमा । सांप्रतं सैष निःशेषद्वेषिकक्ष दिधक्षति ॥ २८२ ॥ अवोचच्च स मां किंचिद्यदि दूतत्वमस्ति ते । जरासन्धं तदाबद्धनिर्बन्धं युधि दर्शयेः ।। २८३ ॥ १. 'नरः' इत्युचित प्रतिभाति.