पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४९४ काव्यमाला। 6 सुश्रुवां नाभयः पायं पायं सारस्वतं पयः । पाथोधिक्षिप्तमन्थाद्रिदरीकार्यमपूरयत् (न्) ॥ २४५॥ तापोच्छित्तिकृते केऽपि सरिद्वारि जगाहिरे । कामप्यालोक्य मज्जन्तीं पुनस्तापं दधुस्तमाम् ॥ २४६ ॥ केचिदुच्छृङ्खलप्रेमरथाङ्गमिथुनं मिथः । वीक्षमाणाश्चिरं तस्थुः श्रमं विस्मृत्य सैकते ॥ २४७ ॥ मराली काचिदालोक्य प्रेयसश्चाटुकारिणीम् । स्त्रीत्वं सासूयमेतस्या निन्दति स्म मुहुर्मुहुः ॥ २४८ ।। इतो भृङ्गाङ्गनागीतैः सारसीरसितैरितः । आकृष्टश्रुतयस्तत्र तस्थुर्व्यग्रं मृगीदृशः ॥ २४९ ॥ काश्चिदच्छपयःपानैर्मणालवलयैः पराः। कर्णोत्तंसोत्पलैरन्या धिनोति स वधूर्धुनी ॥ २५० ॥ काश्चित्तात्कालिकस्नानकमनीयतमश्रियः । वानीरवेश्मसु प्रेयःप्रार्थनामकृतार्थयन् ॥ २५१ ।। प्रियाचंक्रमणे हंसीप्रयाते चाधिसैकतम् । वेत्तुं नाभूदलं कश्चिदुपमानोपमेयताम् ॥ २५२ ॥ फलैः पुष्पैरपि ब्रह्मतनयातीरभूरुहाम् । सैनिकाः पुण्डरीकाक्षं पाण्डवं चोपतस्थिरे ॥ २५३ ।। खर्जूरनागरशाम्रजम्बूजम्बीरमण्डिते । सप्तलामालतीमल्लीचम्पकाशोकशालिनि ॥ २५४ ॥ दत्तोन्मादपिकीनादे हारिहारितनिकणे । कलकादम्बनिहादे पुष्यत्पुष्पंधयध्वनौ ॥ २५५ ॥ दिनान्ते हरिकौन्तेयौ रोधसि ब्राह्मसैन्धवे । आकल्पकमनीयाल्पप्रायप्रेयःपरिच्छदौ ॥ २५६ ॥ न्यञ्चितोच्चैःश्रवःकीर्तिमुच्चमारुह्य वाजिनम् । करम्बितकरौ तैस्तैः फलपुष्पैर्विजहतुः ॥ २५७ ।। (चतुर्भिः कलापकम् ।।