पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४९३ निवासान्परितः पाण्डुतनूजवनमालिनोः । इभाः शाद्वलसान्द्रेषु दुमेष्वालानिता वभुः ।। २३३ ॥ (युग्मम्) आलानपादपः पुष्पैरङ्गवल्गनपातिभिः । व्यमादिभेश्वरे हर्षात्पुष्पवर्षे किरन्निव ॥ २३४ ॥ आनीय कुम्भयोः कर्णतालयोर्लोलयन्मुहुः । प्रस्फोटयन्कटे दन्तकोशान्तः स्थापयन्क्षणम् ॥ २३५ ॥ तैस्तैर्हस्तिपकोद्गीणैर्दिनावचनक्रमैः । मन्दादरः करीन्द्रः स्म तुणुते तृणपूलकम् ॥ २३६ ॥ (युग्मम्) अनीहैरिव नागेन्द्रविधापिण्डोऽप्युपाददे । अमेयमहिमानो हि निःस्पृहा एव सर्वतः ॥ २३७ ॥ स्नातपीताः ककुद्मन्तः पर्यटन्तः सरित्तटे । शशाङ्कविशदा रेजुः फेनकूटा इव स्थिराः ॥ २३८ ॥ महीयः शुशुभे शुभैः कूलिनीकूलशाद्वलम् । चरद्भिः शाङ्करस्तोमैव्योंमेव सितचन्द्रितम् ॥ २३९ ।। अन्यापि वाहिनी नामेत्यसूयाकलुपैरिव । जातं कल्लोलिनीकूलमुद्रुजैर्वाहिनीवृषैः ॥ २४०॥ रिरंसुमनसामेकं (का) गामनुद्रवां जवात् । नाभून्नेत्रोत्सवः कस्य महोक्षाणां रणः क्षणम् ॥ २४१ ॥ करीरादितरुस्तोमकनीयसमनीयत । पीताम्माः करमश्रेणिविशालं जङ्गमस्थलम् ॥ २४२ ॥ करीश्वरकराकान्तं दन्तात्तश्रवणाञ्चलः । करभोऽरक्षदात्मानं विक्रमो हि फलेग्रहिः ॥ २४३ ॥ मार्गश्रमच्छिदे सेरदमिनीखण्डमण्डितम् । स्वैरं तरङ्गिणीवारि गाहन्ते स्म चमूचराः ॥ २४४ ॥ १. कमनीयमिति भवेत.