पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४९२ काव्यमाला। दूरीकृतजनैर्नागा हस्त्यारोहैरमर्षिणः । तीर्थे पृथक्पृथग्दूरं निन्थिरे जलकेलये ॥ २२० ॥ मदाम्बुनिझरोद्गारी करीन्द्रो ह्रदिनीह्रदम् । कामं विलोडयामास पयोधिमिव मन्दरम् ॥ २२१ ॥ हठाकृष्टमुखाम्भोजं क्षिपन्करमितस्ततः । चकार सरितः क्षोभमभीकः करिपुंगवः ॥ २२२ ॥ श्वासोद्भूतैरिव स्थूलमौलिमण्डलमौक्तिकैः । सिञ्चति स्म तनुं हस्ती हस्तोदस्ताम्बुशीकरैः ॥ २२३ ॥ तदूर्मिसौहृदायाताः पयोराशेरिवोर्मयः । विराजन्ते स मजन्तः सरिद्वारिणि वारणाः ॥ २२४ ॥ चित्रिता इव....."भूयोऽपि सरितोऽन्तरात् । सरोजिनीरजापुञ्जपिञ्जराः कुञ्जरा बभुः ।। २२५ ।। समुद्र इव शीतार्तिनिर्गतान्तर्धराधरः । गजैस्तीर्त्वा तटोत्तीर्णै राजते स नदीह्रदः ॥ २२६ ॥ बभौ स्वायंभुवी सिन्धुदन्तावलमदाविला । स्वं मालिन्यमपाकर्तुं कालिन्येव निषेविता ॥ २२७ ॥ क्रीडदुन्मत्तवानेष दन्तिदानाम्बुपङ्किले । कोपतः सरितः कूले पर्यणंसीद्जाग्रणीः ॥२२८ ॥ पेतुषीं सिन्धुरत्रासादवनीश्वरवल्लभाम् । कश्चिदालिङ्गनं सार्धं साधुवादेन लब्धवान् ।। २२९ ।। श्रेणीबद्धैस्तुरङ्गेन्द्रोलबालधिशालिभिः । वीजयद्भिरिवाराजिचामरैः स्वप्रभुश्रियम् ॥ २३०॥ प्रेङ्खत्खुरैः स्फुरत्प्रोथैस्तारं ग्रैवेयकखनैः । राशीकृताः पुरोवाहैः खादयांचक्रिरे यवाः ॥ २३१ ॥ वैरिविक्रान्तिसंतापं सप्ताशयाः स्वाङ्गसंपदः । समुच्छेत्तुमिवातुच्छं क्षरन्तः सप्तधा मदम् ।। २३२ ।।