पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । द्रुमच्छायासु निद्राणा विसंस्थुलितवाससः । ईश्वराणामपि स्वैरं जनैरेक्ष्यन्त योषितः ॥ २०७ ॥ (युग्मम् ) पीतैरत्यन्तमश्रान्तं रोममार्गविनिर्गतः । यशःक्षीरैरिवारीणां फेनवारिभिरङ्किताः ॥ २०८ ॥ कौमुदीविशदे ब्रह्मनन्दिनीपुलिनोदरे । वेल्लयांचक्रिरे वाहाः स्वैरं वल्लभपालकैः ॥ २०९ ॥ (युग्मम्) विरेजुः कुञ्जराः काममुत्तीर्णकुथकेतनाः । समूलमूलिताशेषपादपा इव पर्वताः ॥ २१० ॥ रुप्यन्नासन्नवारिभ्यः सादिन्यो (1) विस्मृतश्रमः । महामात्रेण मत्तेभ्यः (भः) कथंचित्प्रत्यरुध्यत ॥ २११ ॥ काममध्वक्लमातप्तं नवमुक्ताफलोज्वलैः। सिञ्चति स्म वपुः कश्चित्करेणुकरशीकरैः ॥ २१२ ॥ निन्यिरे दूरमुद्भिन्नकटान्ताः कटकाद्गजाः । कुति कोविदः को वा नेदीयांसं मदोद्धतम् ।। २१३ ।। उपबाह्या न बाह्यत्वं प्रभिन्ना अपि लेमिरे । कलङ्कयति निःशङ्कं मदो हि न महीयसः ॥२१४ ॥ चलन्प्रत्यन्यमातङ्गं कोपतोऽथ शताङ्कुशः । सिन्धुरेन्द्रो धुनोति स्म निषिध्यन्तं निपादिनम् ॥ २१५॥ हसन्त इव हेषाभिर्हरिदश्वहरीन्हयाः। नदीवारिविहारार्थमवतेरुः सरस्वतीम् ॥ २१६ ॥ विस्मृत्य पयसः पानमनारोहादखेदवान् । सखेदमनुदुद्राव द्रुतमश्वां हयेश्वरः ॥ २१७ ॥ दन्तक्षोदैः पदापतिस्तारहेपारवोल्वणाः । बलादकलहायन्त नीरतीरे तुरङ्गमाः ॥ २१८ ॥ वारिबिन्दूत्करैर्मुक्तामण्डितास्तरणा इव । तुरङ्गपत्तयः सद्यस्तटोत्तीर्णा विरेजिरे ॥ २१९ ॥ - राजवाहकहस्तिनो मत्ता अपि बाह्यत्व न लेभिरे इत्यर्थः,