पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४९० काव्यमाला। जजल्पतुर्यमौ तर्हि कर्तुमर्हसि मातुल । पदे पदे त्वमुत्साहभङ्गं कर्णस्य संगरे ॥ १९ ॥ गिरं तामुररीकृत्य कृत्यविदागिनेययोः । स्फुरितामन्दमन्दाक्षो मद्रक्षोणिपतिर्ययौ ।। १९५ ॥ प्रतस्थेऽथ प्रगे प्रेङ्खत्पटीयःपटहारवा । कुरुक्षेत्र प्रतिक्षत्रतव्रातरौद्री वरूथिनी ॥ १९६ ॥ क्रमादुपकुरुक्षेत्रं क्षोणिरेणूत्करैर्दिशः । क्षिपन्तीव पिबन्तीय पुञ्जयन्तीव सागमत् ।। १९७॥ प्रसाररुचिरोद्देशे तस्मिन्नुदसरस्वति । निवासानाददाते स्म पुण्डरीकाक्षपाण्डवौ ।। १९८ ।। भारोत्तारकृतेऽप्युष्ट्रपालकैरुपवेशितम् । चुक्रोश परितः क्षिप्तलोलौष्ठमुखमौष्ट्रकम् ।। १९९ ।। क्रमांचक्रिरे स्वैरमश्ववारैः कुतूहलात् । विरश्चिदुहितुः सान्द्रसिकते सैकते हयाः ॥ २० ॥ निरीक्ष्य मुरजित्केतुं शकुन्तेश्वरमुच्चकैः । निजावासभुवः सर्वैः सैनिकैरधिजग्मिरे ॥२०१॥ अन्यस्य वासभूभागमन्ये प्रागागता अपि । शादलानोकहव्यूहपरीतमपि नाश्रयन् ।। २०२ ।। अहंपूर्विकया सर्वैः सर्वतः पृतनाचरैः। श्रिताः सरस्वतीतीरभूरुहः शिशिरश्रियः ॥ २०३ ॥ केचिदालोक्य संप्राप्तमनोज्ञवसतीन्परान् । यानभङ्गादपव्यस्ताः सैनिकाः शुशुचुश्चिरम् ।। २०४ ॥ भूरिलाभस्फुरलोभैरहंप्रथमिकागतैः । तेनिरे विपणौ वेगान्नैगमैः पटमण्डपाः ॥ २०५॥ द्रौहिणीलहरिव्यूहविहारशिशिरीकृतैः । पीयमानश्रमखेदवारयो मातरिश्वभिः ।। २०६॥