पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४८८ काव्यमाला। धर्मसूनोश्च विष्णोश्च दीयन्ते स्म निदेशिभिः । स्थलानि पृथुलाभोगसुभगानि पृथक् पृथक् ॥ १६८ ।। सौविदश्रेणिसंरुद्धाः प्रतिसीरापरिष्कृताः। एतानि परितोऽभूवञ्शुद्धान्तपटमण्डपाः ।। १६९ ।। यथास्थानं भुजस्थामनामिताशेषविद्विषाम् । सामन्तानामजायन्त निवासाः सुन्दरश्रियः॥ १७०॥ अपराह्णेऽथ पल्यविश्रान्तिगलितश्रमः । एष विज्ञापयांचक्रे वेत्रिणा तपसः सुतः ॥ १७१ ॥ मातुः सहोदरो माद्या मद्रमण्डलचन्द्रमाः । शल्यः कल्याणविक्रान्तिारि ते देव वर्तते ।। १७२ ।। जवात्प्रवेशयेत्युक्त्वा प्रतीहारं महीपतिः । सानुजः संम्रमाद्भूमिमभ्यगात्कियतीमपि ॥ १७३ ॥ आयान्तमग्रतो वेत्रिदत्तहस्तावलम्बनम् । आश्लिष्यति स्म भूमीन्द्रस्तं मद्राणामधीश्वरम् ॥ १७४ ॥ यथौचित्यगतौद्धत्यमनोहारिप्रवृत्तयः । रचयांचक्रुराचारमपरेऽपि नृपानुजाः ।। १७५ ॥ प्रीतिपल्लवितानन्दकन्दलो मेदिनीपतिः । निजासनसमानेऽथ तं न्यवेशयदासने ॥ १७६ ॥ सकुटुम्बस्य तस्याथ नाम गृह्णन्पृथक् पृथक् । पप्रच्छ कुशलोदन्तमुदश्चत्तमदो नृपः ॥ १७७ ।। ऊचे मद्रपतिर्मद्रं तस्य राजन् सनातनम् । स्वस्रीयो यस्य विश्चैकमद्रकारो भवादृशः ॥ १७८ ।। भगिन्यौ विश्वपाविन्यौ कुन्ती माद्री च यस्य मे। ययोः सङ्गेन गङ्गापि प्रत्युत स्वं पुपूषति ॥ १७९ ॥ परं किमपि वक्तव्यमस्ति रुन्धे त्रपा तु माम् । वच्मि किंचित्तथापि त्वां नैव चेहुर्मनायसे ।। १८० ॥