पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४८६ काव्यमाला। शनैः शनैः पुरोद्वारान्निष्पपात पताकिनी । कवेर्वदनराजीवकुहरादिव भारती ॥ १४३ ॥ उत्तरद्वा(द्धा)स्तिकं हस्तिनखाद्दूरमधोमुखम् । सस्मार नर्मदातीर्थपथानां विन्ध्यकानने ॥ १४४ ॥ निर्यद्भिः शुशुभे शौरिवालसौहार्दसंगतैः । कालिन्द्या इव कल्लोलैश्छत्रैर्मायूरपत्रकैः ॥ १४५ ॥ प्रग्रहाकर्षणादूर्ध्वं भग्नग्रीवैस्तुरङ्गमैः । स्थान""स्थयुगैरेव निन्यिरे स्यन्दनाः क्षितिम् ॥ १४६ ।। हयादुत्तरतो वेगादधःस्कन्धं निपेतुषी । ययौ स्रस्तांशुका काचिद्दासी सैन्यस्य हास्यताम् ।। १४७ ।। लवलीपूगपुंनागनागवल्लीवनोल्वणम् । केतकीकदलीतालीनालिकेरीकरालितम् ।। १४८ ॥ कल्लोलोत्कुलितानेकरत्नराजिविराजितम् । तयाध्यूषे पताकिन्या तीरं लवणनीरधेः ॥ १४९ ॥ मायूरैरातपत्रौधैर्नृतनाम्भोदकान्तिभिः । वेलाविपिनपङ्क्तीनां पौनरुक्त्यमसूत्र्यत ॥ १५०॥ तुहिनधुतिसंतान इवाम्भोधिं पितामहम् । आगतः शुशुभे राज्ञां सितच्छन्त्रावलिच्छलात् ॥ १५१ ॥ राशीकृताः स्फुटन्तीभिः पारेऽकूपारमूर्मिभिः । प्रेक्ष्यन्त सैनिकैः फेनकल्पा मौक्तिकपतयः ॥ १५२ ॥ प्रतिद्विपधिया क्रुद्धानीषादन्तान्निपादिनः। धावन्तो रुरुधुः सिन्धुकल्लोलेभ्यः कथंचन ॥ १५३ ।। ताम्बूलीनां दलैः कांश्चिन्नालिकेरासवैः परान् । कक्कोलैलाफलैरन्यानधिकूलमुपाकरोत् ॥ १५४ ॥ १. 'हस्तिनखः परिकूटम्' इति हलायुधः । पुरद्वारावतरणाथै कृतः क्रमनिनो मृत्कूट इत्यर्थः. २. दीर्घदन्तगजानू,