पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४८४ काव्यमाला। नूतनाम्भोदगम्भीरं गर्जन्ति स्म मतङ्गजाः। उत्तरङ्गास्तुरङ्गाश्च बद्धहर्षं जिहेषिरे ॥ ११७ ॥ अनीकानि तपासूनोर्देवकीनन्दनस्य च । मुदितानि मनांसीव तदानीमेकतां ययुः ।। ११८ ॥ यादवी पाण्डवीया च जाह्नवीयमुने इव । संभूय चेलतुः सेने गन्तुं संगरसागरम् ॥ ११९ ॥ एकैकापि चमूः काम्या किंतु संचलिते उभे । शौण्डीरता च नीतिश्च यथा संजातसंगमे ।। १२० ॥ उत्खातहेमभूपांशुमांसलीकृतकान्तयः । प्रयाणपटहाहूता धावन्ति स्म पुराङ्गनाः ॥ १२१ ॥ गवाक्षलक्ष्यवामाक्षीमुखैः कनकवेश्मभिः । चकाशेऽनेकशीतांशुफलैः कल्पद्रुमैरिव ॥ १२२ ।। जनैरेकमुखैः सर्वैः प्रति प्रस्थानवर्तिनीम् । बभूवे सरितामोधैरिव प्रति महानदीम् ॥ १२३ ॥ दृष्ट्वामून्मा स्म भूद्भानोरवज्ञा निजवाजिषु । इतीव सप्तयः क्लृप्तवितानाः पांशुभिर्ययुः ॥ १२४ ॥ अजैषीत्कुञ्जरश्रेणिमदकल्लोलपकिला । सिक्तं जम्बूरसैर्जाम्बूनदादि काञ्चनावनिः ॥ १२५॥ यावकच्छविकौशेयकिरीटविकटद्युति । उग्रग्रैवेयककाणनिर्वाणानेकनिक्कणम् ॥ १२६ ।। सुवर्णच्छविना साक्षात्तेजसेव निजप्रभोः । चीनांशुकेन संशोभिपृष्ठं प्रातिष्ठतौष्ट्रकम् ॥ १२७ ॥ (युग्मम् - जयमङ्गलतूर्यस्य गम्भीरैर्ध्वनिभिश्चिरात् । स्मार्यते स मुकुन्दस्य सिन्धुमि(नि)मथनध्वनिः ॥ १२८॥ केतुकन्दलितै रत्नपीवितार्कमरीचिभिः । रथैः प्रास्थीयतोत्तीर्णैर्विमानैरिव मेदिनीम् ॥ १२९ ।।