पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । तद्गच्छ कथयेस्तस्य सन्ति चेत्तव वाहवः । पुत्रजामातृकल्पान्तकोपश्च स्फुरति स्फुटः ॥ १०४ ॥ सांयुगीनो झगित्येव तद्भवेः सह सेनया । चिरादुपोषितस्यास्तु मत्कृपाणस्य पारणा ॥ १०५॥ एवमुवीर्य तं दूतं विससर्ज गदाग्रजः । आहूय तमुदन्तं च कौन्तेयानामचीकथत् ॥ १०६ ॥ तेनाख्यातेऽथ वृत्तान्ते पाण्डवैर्मुमुदेतराम् । तत्कार्यमपि शौण्डीर्यात्खयमेव चिकीर्षुभिः ।। १०७ ॥ अथ प्रस्थानके लग्ने सर्वग्रहवलोज्वले । प्रणीतमङ्गलाः कुन्त्या पाण्डवेयाः प्रतस्थिरे ।। १०८ ॥ अपरेऽप्यवनीपाला विराटद्रुपदादयः । तानन्वगुर्महोत्साहाः संस्कारा इव धीगुणान् ॥ १०९ ॥ ते समुच्छलदुत्साहलहरीपीवरश्रियः । समं सेनाभिरभ्येत्य राजद्वारेऽवतस्थिरे ।। ११०॥ देवोऽपि कसविध्वंसी देवकीकृतमङ्गलः । प्रतस्थे सजितानेकराजकानीकराजितः ।। १११ ॥ बान्धवैश्च तनूजैश्च वसुदेववलादिभिः । युतस्तमनुवबाज समुद्रविजयो नृपः ॥ ११२ ॥ तत्कालकलितौद्धत्यः कार्मुकादिपरिग्रहात् । वहन्नुच्चै रसं शान्तं बिभ्राणं वीरभूमिकाम् ॥ ११३ ॥ सवयोभिः स्मराकारैः कुमारैः परिवारितः । दधद्दिव्यानलंकारान्मायूरातपवारणान् ॥ ११४ ।। बालाभिरङ्गसौभाग्यविशेषवलितेक्षणम् । वीक्षितोऽनुक्षणं नेमिः प्रतस्थे स्यन्दनस्थितः ॥ ११५॥ (त्रिमिर्विशेषकम्) दध्वने मधुरध्वानैरानकैरभयानकम् । अवामाः शिशिरास्त्यतपासवो वायवो बवुः ॥ ११९ ॥