पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। विमुञ्च सत्वरं दुष्टौ राजद्विष्टकृताविमौ । चिराय मेदुरामोदा मुदं पुष्णन्तु वृष्णयः ।। ९१ ।। वाचालं पुरुहूतस्य श्रुत्वा दूतस्य तां गिरम् । उवाच केशवः कोपरागश्यामारुणेक्षणः ॥ ९२ ।। रे दूत नूतनं किंचित्तवातत्वमिदं खलु । वक्तुं को नाम जानाति त्वां विना पथ्यमीदृशम् ।। ९३ ।। गोपो गोप इति ब्रूते प्रभुते सत्यमेव माम् । खलेभ्यो यत्खलु क्षोणेरहं पातास्मि संप्रति ॥ ९४ ॥ किं चार्धभरतेशोऽपि क एष पुरतो मम । का कक्षस्तुङ्गकूटोऽपि पुरो देव हविर्भुजः ।। ९५ ॥ सारता जयजीवातुर्न पुनर्बहुसैन्यता । उन्मूलयति वातूलस्तूलराशीन्महीयसः ।। ९६ ॥ किं नाम दृषदष्टको दारयेन्न गरीयसीः । न छिनत्ति कुठारः किं भूरुहोऽभ्रंलिहानपि ॥ ९७ ॥ (युग्मम् पक्षपातेन कंसस्य भ्रूणध्वंसविधायिनः । सोऽपि हन्तव्यपक्षेऽभूदस्माकं दुष्टशासिनाम् ॥ ९८ ॥ कुरुनन्यायिनः पुष्यन्नन्यायी नायकोऽपि ते । अन्यायं च सहे नाहं ततोऽप्यस्य न जीवितम् ॥ ९९ ॥ प्लावयत्यत्रकल्लोलैर्मयि कल्पान्ततोयघौ। परित्राणक्षमास्तस्य""नोचैरपि भूभृतः ।। १०० ।। निहन्तुं प्रस्थिता एव कुरून्वर्तामहे वयम् । सोऽप्येतु समरेऽप्यस्मिन्भवत्वस्मत्समीहितम् ॥ १०१ ।। अहितानां तु बाहुल्यं मुदे शौण्डीर्यशालिनाम् । आधिक्यमेधसा काममुत्सवाय हविर्भुजः ॥ १०२ ॥ मय्यागते तु संग्रामे व्योमन्युत्पातवातवत् । प्रभुः स भवतो मागान्मेघवद्विशरारुताम् ॥ १०३ ।।