पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४८१ जातौ कंसश्च कालश्च कालस्य भवनातिथी। अध्वना येन सोऽद्यापि बलोऽस्ति न खलु क्वचित् ॥ ७८॥ सावष्टम्भे भुवः पत्यावित्यादाय वचः स्थिते । दूतः स कोपनिष्ठधूतवाग्विषः पुनरब्रवीत् ।। ७९ ॥ राजन्नाजन्म देवस्य जरासन्धस्य शासनम् । मूर्ध्नि त्वयैव किं नाम न शेषाकुसुमीकृतम् ॥ ८०॥ तत्तवाद्यतनः कोऽयमहंकारनवाङ्कुरः । पक्षौ पर्यन्तकाले वा कलयन्ति पिपीलिकाः ॥ ८१ ॥ एतयोर्बल मा दृप्य गोपबालकयोर्बलात् । तमिस्रबलमाश्रित्य कियन्माद्यन्ति कौशिकाः ॥ ८२ ।। भिया कालकुमारस्य विमुच्य मथुरां पुरीम् । नश्यतां वस्तदा नासीदिदं गोपद्वयं किमु ।। ८३ ॥ तज्जरासन्धदेवस्य कश्च त्वं कौ च तौ शिशू । के चामी यादवाः सर्वे सपौत्रसुतबान्धवाः ।। ८४ ॥ वनवह्निर्वनोत्सङ्गे दहन्नखिलभूरुहः । किंनु कण्टकिनां दाहकृते संरभतेऽधिकम् ॥ ८५ ॥ अक्षौहिणीभिरासन्नदेशाभिरुपजन्मिवान् । कौरवेन्द्रोऽपि तं संप्रत्यहितोच्छेदवाञ्छया ॥ ८६ ॥ संप्रत्येष विशेषेण तदिन्द्रेणापि दुःसहः । दुस्तरः सर्वदाम्भोधिः किमुत ग्रीष्मसंगमी ॥ ८७ ॥ कि चाङ्गीकृत्य मित्रस्य शात्रवान्पाण्डवानमून् । मत्प्रभोर्बत युष्माभियंलीकान्तरमादधे ॥ ८८ ॥ तद्वो यावन्न सोऽद्यापि व्यलीक कलयत्यदः । गोपद्वयार्पणातावद्युज्येतास्य प्रसादनम् ।। ८९ ॥ तदद्यापि हि बुध्यस्व हितमालोचयात्मनः । ककुराणां कुलं मा स लम्भयः स्मृतिशेषताम् ॥ ९०॥