पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। त्यजन्ति कृतिनः काममल्पीयो बहुहेतवे । मुनयो विषयानन्दं महानन्दकृते यथा ॥ ६५ ।। भास्वानपि समानान्तो हेमन्तेन बलीयसा । निजं तेजः परित्यज्य गमयेत्किं न वासरान् ॥ ६६ ॥ एकं क्रमेलकं त्यक्त्वा पामरं पामरैरपि । उष्ट्रकस्य समग्रस्य किं न शान्तिर्वितन्यते ।। ६७ ॥ दूतवाक्यमिति श्रुत्वा खप्रभुः प्राभवोर्जितम् । ईषत्कोपकरालास्यः काश्यपीपतिरब्रवीत् ॥ ६८॥ रमणीयतमैवेयं वाचोयुक्तिस्तव प्रभोः । त्वमप्यहितमस्माकमूचिवानेव किंचन ॥ ६९ ॥ क्षत्रगोत्रप्रसूतानां नैतदञ्चत्यनौचितीम् । गृह्यन्ते मित्रवर्गेऽपि यहरमपराधिनः ॥ ७० ॥ परं स यदि सौहार्दाद्याचतेऽस्मानमूनपि । दद्म एव तदा सर्व मादृशानां हि मित्रसात् ॥ ७१ ॥ यत्तु खाजन्यमुत्सृज्य बलाबलजनार्दनौ । याचते भवतः खामी तदत्यन्तमसांप्रतम् ॥ ७२ ॥ किं च पापात्मनां कार्यं शासनं भूमिशासनैः । भ्रूणघ्नस्तब्धकंसस्य चक्रे चेत्सबलो हरिः ॥ ७३ ॥ तत्किं न ते प्रभोरेव रमणीयमभूदिदम् । अरुणेन तमोध्वंसः श्रेयसे किसु भाखतः ।। ७४ ॥ प्रत्युताधिक्षिपन्गोपदारकाविति ताविमौ । जिघांसति च ते नाथो दोर्दण्डबलदुर्मदी ।। ७५ ॥ तन्नावति स किं यादृग्विधौ गोपालबालकौ । वेत्ति वा शक्तिमोः किं भस्मतामगतस्तरुः ॥ ७६॥ स स्वयं दास्यते नूनं जीवितस्य जलाञ्जलिम् । दर्दुरेण हि दुर्जीव खलीकृत्य भुजंगमम् ॥ ७७ ॥