पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४७९ अंसयोर्यस्य चाणूरं हन्तुं प्रस्थानकाम्यतः । स्थासकाश्चक्रिरे गोप्यः कटाक्षमृगनाभिभिः ।। ५२ ।। कम्पिताशेषभूमीभृन्नृत्यच्छक्तिप्रियंकरः । कंसकल्पान्तमातेने भैरवो यस्य विक्रमः ।। ५३ ॥ कर्तुं निश्चिन्तमात्मानं समुद्रविजयो नृपः । यं चकार चिरं द्वारवतीराज्याधिदैवतम् ॥ ५४॥ त एते यादवा यस्यां श्रियं निर्जित्य वज्रिणः । विक्रमन्ते न किं सापि श्रुता द्वारवती त(त्व)या ॥ ५५ ॥ इति जीवयशास्तेषां वचः श्रुत्वातिदुःश्रवम् । कष्टमद्यापि पापास्ते जीवन्त्येवेत्यखिद्यत ॥ ५६ ॥ रुदन्ती सा ततस्तारमागत्योन्मुक्तकुन्तला । आस्थानीमास्थितानां नस्तं वृत्तान्तमचीकथत् ॥ ५७ ॥ जगाद सा पितः क्रूरान्न चेत्तान्संहरिष्यसि । तदाह नियतं तात प्रवेक्ष्याम्याशुशुक्षणिम् ।। ५८ ।। इत्येतस्मिन् श्रुते मन्योर्जागर्यामङ्गलध्वनौ । सौखशायनिका चास्य चिन्तास्माकमभूदियम् ॥ ५९॥ धिक् चरैर्न तदाख्यायि निर्दग्धाः कुकुरा इति । अद्यापि ते तु जीवन्ति तत्कि नामेदमद्धतम् ॥ ६ ॥ यद्वा वर्षीयसी मन्ये तद्गृह्या देवतैव सा । संजहार कुमारं नो विप्रलभ्य चितानलैः ॥ ६१ ॥ यद्वा किं तेन तेऽद्यापि दवीयांसो न यादवाः । बद्धक्रोधे निदाघे हि कियत्खेलन्ति पल्वलाः ॥ ६२ ॥ परमद्यापि जामातृद्विषो चेदर्पयिष्यथ । तदुदेष्यन्ति कल्याणवल्लयो वः कुले चिरम् ॥ ६३ ॥ आख्यातुमिति वो राजन्खामिना प्रहितोऽस्म्यहम् । तदर्पय कुलक्षेमकृते गोपालबालकौ ।। ६४ ॥